________________
२०६) श्रीजैनकुमारसम्भवायं महाकाव्यम् टीकासमलंकृतम् सर्गः ६॥
जेतुं न इयेप न वांछितवान् । ये पुरुषाः स्वस्य आत्मीयस्य परस्य स्थान बलं मत्वा ज्ञात्वा विगृहणते विग्रहं कुर्वन्ति जयश्रीः जयस्य श्रीस्तानाश्रयते ॥२७॥ श्रोतांसि पश्चापि न पुष्पचाप-चापल्यमातन्वत तस्य नेतुः । स्वदेहगेहांशनिवासिनां यो, न शासकः सोऽस्तु कथं त्रिलोक्याः ॥ ___ (व्या०) श्रोतांसि इति । तस्य नेचुः स्वामिनः पञ्चापि श्रोतांसि इन्द्रियाणि पुष्पचापचापल्यं पुष्पाणि चापं धनुर्यस्य सः पुष्पचापः कामस्तस्य चापल्य तन् कंदर्पसत्कचपलत्यं न जतन्वत नाकुर्वन् । यः स्वदेहगेहांशवासिनां स्वस्थ देह एव गेहस्यांशः स्वीयदेहरूपगृहकोणः तस्मिन् वसन्तीति वासिनस्तेषां न न शासको न शिक्षकः स त्रिलोक्या. त्रयाणां लोकानां समाहारस्त्रिलोकी (संख्यासमाहारे च द्विगुश्वानाम्न्ययम् । ३ । १ । ९९ । इ. सू. द्विगुसमासः । द्विगो: समाहारात् । २ । ४ । २२ । इ. सू. स्त्रियां डी ।) तस्या शासक: शिक्षकः कथमस्तु ॥२८॥ या योषिदेनं प्रतिदृष्टिभल्ली-श्विक्षेप बाधाकरकामबुद्धया । तामप्यवैक्षिष्ट दृशा स साम्य-स्पृशैव शक्ती सहना हि सन्तः ॥२९॥
(व्या०) या इति । या योषित् स्त्री तं भगवन्तं प्रति बाधाकर कामवुद्धया बाधां पीडा करोति इत्येवंशीलः स चासो कामः कंदर्पस्तस्य बुद्धिस्तया दृष्टिमल्ली. दृष्टय एव मल्लयस्ताः चिक्षेप । बाथाकर कामवुद्धयेति कामस्तस्या बाधाकरोऽस्ति । भगवन्तं दृष्ट्वा नया चिन्तितम् । एष एव कामरसतोऽहमपि एनं हन्मीति चुन्या दृष्टिभल्लीश्चिक्षेप इति भाव. । स भगवान् तामपि स्त्रियं साम्वं स्पृशतीति साम्यस्क तया साम्यस्पृशैव शा रागरहितशा अबक्षिष्ट व्यलोकयत् । हि निश्चितं सन्तो विद्वांसः भक्तो सत्यां सहनाः सहन्ते इति सहनाः (नन्यादिश्योऽनः । ५ । १ । ५२ । इ. सू. सहधातोः अनप्रत्ययः ।) वर्तन्ते । 'ज्ञाने मौनं क्षमा अक्तौ, त्यागे श्लावाविपर्यय' । इतिन्यायात् ॥ २९ ॥ नासौ विलासोर्मिभिरप्सरोभि-रक्षोभि नाट्यावसरागताभिः । श्रोतःपतेोमनसोऽपि शोषे, प्रभूयते तख किमत्र चित्रम् ॥ ३०॥