SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १३६) श्रीजैनकुमारसम्भवायं महाकाव्यम् टीकासमलंतम् ॥ सर्गः ४ तस्याः देव्याः वसनाय अवैमि जानामि । देवता: (देवात् तल । ७-२-१६२ इ. सू. देवशब्दात् स्वाथै तल देवा एव देवताः) भुवि पृथिव्यां भूना बाहुल्येन रति (स्त्रियां तिः । ५ । ३ । ९१ । इ. सू. रम्घातो वे स्त्रियां तिः । यमिरमिन मिगमिहनिमनिवनतितनादेई विडति । ४ । २ । ५५ । इ. स. रम्धातोर्मकारस्य लोपः) प्रीतिं न यन्ति नाप्नुवन्ति । एतावता लक्ष्मीः प्रभोः करतले वसतीति भावः ॥ २९ ॥ सुवर्णमुक्तामणिभासि वासवै-न्यवेशि तस्यापधनेषु येषु यत् । तदीयमुख्यातिभंगभीषणं, विभूषणं तैस्तदमानि दूषणम् ॥ ३०॥ _(व्या०) सुवर्णति । वासवैरिन्द्रः तस्य भगवतो येषु अपधनेषु (अप हन्यते अनेन इति अपघनः निधोद्धसद्धोद्धनाऽपधनोपनं निमितप्रशस्तगणाऽत्याधानाङ्गाऽऽसनम् । ५ । ३ । ३६ । इ. स. अलन्तो निपात्यते) अवयवेषु यत् सुवर्णमुक्तामणिमासि (अजातेः शीले । ५ । १ । १५४ । इ. सू. भास्थातो. शीलेऽर्थे णिन् ) सुवर्णानि च मुक्ताश्च मणयश्च तैर्भासते इत्येवं शीलं देदीप्यमानं भूषणं न्यवेशि निवेशितम् । तैसिवैः तदीयमुख्यातिभंगभीषणं तस्य प्रभोः इयं तदीया चासौ मुख्यधुतिश्च तस्याः भंगेन भीषणं रौद्रं तत् विभूषणं (विभूयते अनेन इति विभूषणं करणाधारे । ५ । ३ । १२९ । इ. सू. करणे अनट) दूषणममानि येषु प्रभोः अवयवेषु भूषणं निवेश्यते तेन भूषणेन तेषाम पयपानां काचिनिरुपमा कान्तिराछायते ततो भूषगानां दूषगत्वमितिभावः ।। यथा भ्रमयः कमले विकस्वरे, यथा विहंग्यः फलिते महीरहे । उपयुपर्यात्तविभूषणे विभौ, तथा निपेतुस्निदशांगनादृशः ॥ ३१ ॥ ___ (व्या०) यथेति । त्रिदशांगनादश• त्रिदशानां देवानां अंगनाः स्त्रियः तासां दृशः देवांगनाइयः आत्तविभूमणे आत्तानि गृहोतानि विभषणानि अलंकरणानि येन तस्मिन् गृहीतभूषणे विभौ स्वामिनि उपरि उपरि तथा निपेतु पतिताः यया भ्रम? विकस्वरे (स्येश भासपिसकसोबरः । ५ । २ । ८१ । इ. सू.
SR No.010341
Book TitleJain Kumar Sambhavakhyam
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherAcharyarakshit Pustakoddhar Sanstha
Publication Year
Total Pages397
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy