SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १३२) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टोकासमलंकृतम् ॥ सर्गः ४ वासयितुं प्रयेतिरे उपक्रान्ताः । ते कचा. अमीषु जलकेतकादिषु प्रत्युत विशेषतः सौरभश्रियं सौरभस्य श्रीस्तां न्यधुः (कर्तरि अद्यतनी ।) निक्षिप्तवन्त । हि निश्चित महतां महापुरुषाणां संगतिः मोधानिष्फला न वर्तते । भगवतो देहस्य जन्मप्रभृति स्वभावतः सुगंधत्वात् केशादिवासनं देवैव्यवहारार्थमेव कृतम् ॥ २१ ॥ पिनद्धकोटीरकुटीरहीरक-प्रभास्य मौलेरुपरि प्रसृत्वरि । प्रतापमेदस्त्रिमदां विवस्वतो--ऽभिषेणयन्तीवकरावली बभौ ॥२२॥ (व्या०) पिनद्रेति । पिनद्धो (वावाप्योस्तनिक्रोधाग्नहोर्वपी । ३-२ १५६ । इ. सू. अपि स्थाने पिः) बद्धः कोटीरोमुकुटः स एव कुटीरं स्थान तस्मिन् ये हीरकास्तेषां प्रभा । अस्य भगवतो मौलेमस्तकस्य उपरि प्रसृत्वरी (सृजीन राष्ट्रप् । ५ । २ । ७७ । इ. सू. प्रपूर्वकसूधातोः ट्वरप् । हस्तस्य तः पित्कृति इ. सू. तोन्तः । अणयेकण्ननटिताम् । २ । ४ । २० । इ. सू. प्रसत्वरशदात् की ।) प्रसरणशीला सती बभौ शोभिता । किं कुर्वती उप्रेक्ष्यते । प्रतापमेदस्विमदा प्रतापेनमेदस्वीमदो यस्याः सा तां प्रतापस्थूलमदा विवस्तः सूर्यस्य करावली कराणामावली ता किरणश्रेणिं अभिषेणयन्ती इव सेनया भभि सन्मुख यान्तीव ॥ २२ ॥ सनिष्कलंकानुचरः प्रभार्णवं, विगाह्य नावेव दृशा तदाननम् । शिरःपदं पुण्यजनोचितं जनो, ददर्श दूरान्मुकुट त्रिकूटवत् ॥ २३ ॥ (या०) स इति ॥ जनोलोकः त्रिकूटवत् शिखरत्रययुक्तं पक्षे त्रिकूटनामा पर्वतस्तद्वत् त्रीणि कूटानि शिखराणि यस्य स तमिव मुकुटं दूरात् ददर्श । किं विशिष्टोजन. स निष्कलंकानुचरः निर्गतः फलकः येभ्यस्तै निष्कलंका. ते च ते अनुचराश्च निष्कलंकानुचराः निर्दोषानुचरास्त. सहवर्तते इति सनिकलंकानुचर: पक्षे निष्कं सुवर्ण तेन सह वर्तते यथा यां तां लंकामनुचरतीति । किं कृत्वा प्रभार्णवं प्रभाया. अर्णवं समुद्रं तदाननं तस्य भगवत· आननं मुखं तत नावा इव बेडिकया इस दशा दष्टया विगाह्य किं विशिष्टं मुकुट शिरःपदं शिरसि
SR No.010341
Book TitleJain Kumar Sambhavakhyam
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherAcharyarakshit Pustakoddhar Sanstha
Publication Year
Total Pages397
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy