SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ श्रीजैनमारसम्भवाख्यं महापाव्यम् टीकासमलंकृतम् ॥ सर्गः ४ (१२३ तदा दालोडनशाखिदोलन-प्रिया खालोकमुखोमखांशिनाम् । रसः प्रयाणस्य रसेन हस्तिनः, पदेन पादान्तरवद्वयलुप्यत ॥ ३ ॥ (न्या०) तदेति ॥ तदा तस्मिन्नवसरे मरवाशिनां देवानां हदे जलाशये आलोडनमवगाहनं हृदालोडनं हुदावगाहनं शाखिनो वृक्षास्तेषु दोल्न खणं गाखिदोलनं प्रियाया मुख तस्य आलोकः प्रियामुखालोकः एते प्रमुखा. मुख प्रधानं यस्य स रस. प्रयाणस्य रसेन व्य यत लुप्त । किं वत् पादान्तरवत् यथा हस्तिनः पदेन द्विपदचतुप्पदादीनां पादान्तरं लुप्यते 'सर्वेपदा हस्तिपदे अविष्टाः' इति न्यायात् ॥ ३ ॥ विनिर्यतां स्वस्वदिवो दिवौकसां, स कोऽपि घोषः सुहृदादिहूतिभूः। अभूद्विहायस्यपि यत्र गोत्र, विमिश्रित का प्रविभक्तुमीश्वरः ॥४॥ (व्या०) विनिर्यतामिति ॥ स्वस्वदिवः स्वस्य स्वस्य स्वर्गात् विनियंतां निर्गच्छता दिवौकसां चोरोको येषां ते दिवौकसो देवास्तेषां सुहृदादीनां (शोभन हृदयं येषां ते सुहृदो मित्राणि सुहृद् दुर्हन् मित्रामित्रे । ७ । ३ । १५७ । इ सू. मित्रेऽर्थसुपूर्वक हृदयस्य दादेशो निपात्यते सुहृद आदौ येषां ते सुदादयस्तेषां एकार्थ चानेकं च । ३ । १ । २२ । इ. सृ. बहुव्रीहिः) मित्रादीनां हूतिराकारणं तस्या भवतीति सुहृदादिहूतिभूः स कोऽपि घोषः कलकल• गोकुलं चा अभूत् । यत्र घोषे गोत्रज वाणीसमूहं धेनुसमूह वा विमिश्रितं एकीभूतं सत् विहायस्यपि आकाशेऽपि प्रविभक्तुं पृथक् कर्तुं क ईश्वर' समर्थः स्यात् अपि तु न कोऽपि ॥ ४ ॥ अमीषु नीरंध्रचरेषु कस्यचि-निरीक्ष्य युग्यं हरिमन्यवाहनम् । इभो न भीतोऽप्यशकत्पलायितुं, प्रकोपनः सोऽपि न तं च धर्पितम् ।। (व्या०) अमीष्विति ।। अन्यवाहनं अन्यस्य देवस्य वाहनं (करणाधारे । ५ । ३ । १२९ । इ. सू. पहधातोः करणे अनट् उह्यते अनेन इति वहनं ततः प्रज्ञादिभ्योऽण् । ७ ।.२ । १६५ । इ. सू. स्वार्थे अण् वहनमेव
SR No.010341
Book TitleJain Kumar Sambhavakhyam
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherAcharyarakshit Pustakoddhar Sanstha
Publication Year
Total Pages397
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy