SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ श्रीजैनकुमारसम्भवाख्य महाव्यम् टीकासमलंकृतम् ॥ सर्गः ३ (१११ उभे प्रभौ स्नेहरसानुविद्धे, स्नेहैः समभ्यज्य च संस्तपथ्य । लावण्यपूण्ये अपि भक्तितस्ता, न स्वश्रमेऽमंसत पौनरुक्त्यम् ॥३१ ॥ ( व्या० ) उभे इति ॥ ता सख्यः भक्तित स्वश्रमे स्वस्य श्रमस्तस्मिन् आत्मीय प्रयासे पौनरुक्त्यं ( पतिराजान्तगुणाङ्ग च । ७ । १ । ६० । इ. सू. पुनरुक्त: भावे ट्यणू) पुनरुक्तदोषं नामंसत न मन्यन्ते स्म । किं कृत्वा उमे कन्ये स्नेहैस्तैलैः समभ्यज्य अभ्यंग्य च अन्यत् संस्नपय्य स्नानं कारयित्वा । किं विशिष्टे कन्ये प्रभौ श्री ऋषभदेवे स्नेह रसानुविद्धे स्नेहस्य रसस्तेन अनुविद्धे प्रेमरसव्याप्ते ते पुन' लावण्यपुण्ये (वर्णदृढादिभ्यष्टयण च वा । ७ । १ । ५९ इ. सू. लवणशब्दात् ट्यण् ) अपि लावण्येन पुण्ये लावण्यपुण्ये ते लावण्यपवित्रे अपि । कोऽर्थः ते कन्ये पूर्वमेव स्नेहरसेन प्रभौ प्रेमरसेन तैलेन वानुविद्धे लावण्येन च पवित्रे वर्तेते पुनरपि तत्करणेन पुनरुक्तत्वं स्यात् परं भक्तिभावात् तनजातमिति भावः ॥ ६१ ॥ वृषातुरेणेव पटेन चान्त - सानीयपानीयलवे जवेन । स्फुरन्मयूखे निभृते क्षणं ते, सुवर्णपुत्रयोः श्रियमन्वभूताम् ॥ ६२ ॥ (०या०) तृषातुरेणेति ॥ ते कन्ये सुमंगलानन्दे क्षणं एकं क्षणं सुवर्णपुत्रयोः सुवर्णस्य पुत्र्य सुवर्णपुत्र्यौ तयोः सुवर्णपुत्रिकयोः श्रियं शोभां अन्वभूताम् । किं विशिष्टे जवेन वेगेन तृषया आतुरस्तेन तृषातुरेणेव पटेन वस्त्रेण चान्तरनानीयपानीयलवे चान्तः ग्रस्तः स्नानीयस्य ( स्नातुं योग्यं स्नानीयं तव्यानीयौ । ५--१-२७ इ. सू. स्नाधातोरनीय: 1) पानीयस्य (पातुं योग्यं पानीयं तव्यानीयौ । ५ । १ । २७ । इ. सू. पिबतेरनीयः ) लवः ययोस्ते पुनः किं० निमृते निश्चले पुनः स्फुरन्मयूखे स्फुरन्तो देदीप्यमानाः मयूखाः किरणाः ययोस्ते ॥ ६२ ॥ सगोत्रयोर्मूर्ध्नि तयोरुदीय, नितम्बचुम्बी चिकुरौघमेघः । वर्षन् गलभीरमिषान्मुखाब्जा - न्यरगेरयच्चित्रमवेक्षकाणाम् ॥ ३३ ॥
SR No.010341
Book TitleJain Kumar Sambhavakhyam
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherAcharyarakshit Pustakoddhar Sanstha
Publication Year
Total Pages397
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy