SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ १०६) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ।। सर्गः३ सुचारुगारत्मततोरणानि, द्वाराणि चत्वारि बभुर्यदने । देवीधुरुद्धायपथासु रोषाद्, भ्रूभंगभाञ्जीव दिशां मुखानि ॥४८॥ (व्या०) सुचारु इति ॥ यदने यस्य मंडपस्य अग्रे चत्वारि द्वाराणि वभुः शोभितानि । किं लक्षणानि द्वाराणि सुचारुगारुमततोरणानि सुचारूणि मनोज्ञानि गारुमतरत्नां तोरणानि येषु तानि । उत्प्रेक्ष्यते देवीषु रुद्धाप्रपथासु (sक्पू: पथ्यपोऽत् । ७ । ३ । ७६ । इ. सू. पथिन् शब्दात् अत् समासान्त: नोऽपदस्य तद्रिते । ७ । ४ । ६१ । इ. सू. इन् लोप:) रुद्रामागासु सतीषु रोषात् भ्रूभंगभाञ्जिभूवोः (भ्राम्यताती भ्रूः स्त्रीलिङ्ग भ्रमिगमितनिभ्योडित् । ८४३ । इ. उ. सू. भ्रभूच्धातो: डित् उप्रत्यय: डियन्त्यस्वरादः इ. सू. अन्त्यस्वरादिलोपः) भंगस्तं भजन्ति उत्पादितम्रकुटिसंयुक्तानि दिशां मुखानि इव ॥ ४८॥ अलंभि यस्योपरि शातकुंभ-कुंभैरनुदिनसरोरुहाभा । नभःसरस्यां चपलैर्वजधैिर्विसारिवैसारिणचारिमा च ॥४९॥ (व्या०) अलंभीति । यस्य मंडपस्य उपरि शातकुंभकुंभैः शातकुंभस्य सुवर्णस्य कुंभास्त. कलश: नभःसरस्यां नमः एव सरसी तस्यां आकाशसरोवरे अनुद्भिनसरोरुहाभा ससि रोहन्तीति सरोरुहाणि अनुद्धिनानि च तानि सरोरुहाणि च तेपामाभा अविकस्वरकमलशोभा अलंभि प्राप्ता । कमलकोशानां कलशानां च सादृश्यं स्यात् । च अन्यत् चपल: ध्वजौघेः ध्वजानामोधास्तैः विसारिवैसारिणचारिमा विसरन्तीति विसारिणः (विपरिप्रात्सतः । ५ । २ । ५५ । इ. सू. विपूर्वकात्सत. । शीलादिसदर्थे घिनण् ।) विसारिणश्च ते पैसारिणाश्च (विसारिणो मत्स्ये । ७। ३ । ५९। इ. सू. मत्स्यार्थात् विसारिशब्दात् स्वार्थेऽण् । विसरन्ति इत्येवंशीलाः पिसारिण विसारिण एक सारिणाः) तेषां चारिमा (पृथ्वादेरिमन् वा । ७ । १ । ५८ । इ. सू. चारुशदात् भावे इमन् । व्यन्तस्वरादेः । ७ । २ । ४३ । इ. सू. चारशब्दे उकारस्य लोपः) मनोज्ञता प्रसरणशीलमत्स्थमनोजता अलंभि प्राता ॥ ४९ ॥
SR No.010341
Book TitleJain Kumar Sambhavakhyam
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherAcharyarakshit Pustakoddhar Sanstha
Publication Year
Total Pages397
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy