________________
-
-
१०२) श्रीजैनकुमारसागपाल्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ३ निश्चित वेद्र (तिवाणवः परस्मै । ४-२-११७ । इ. सू. विद् धातोः तिन् स्थाने णव् प्रत्ययः ।) जानाति हृदये वसन्ती (यशवः । २ । १ । ११६ । इ. सू. वसन्ती इत्यत्र अतुरन्तादेशः ।) इति लक्षणया शेयम् ॥ ३९ ॥ स्वयं प्रभूपातिपः शचीशः, शची शुचिप्राज्यपरि छदा सः । न्यदिक्षतोपत्करणे कुमार्यों नायर्यों हि नारीवधिकारणीयाः ॥४०॥
(व्या०) स्वयमिति || शचीशः शया ईश. इन्द्रः शचीमिन्द्राणी कुमार्योः सुमंगलासुनन्दयोः उपरकरणे अलंकरणे न्यदिक्षत आदिवान् । कि लक्षण: इन्द्रः स्वयं आत्मना प्रभूपास्तिपरः प्रभोरादिनाथस्य उपास्तिः (श्चादिभ्यः । ५-३-९२ । इ. सू. उपपूर्वक आस्थातो स्त्रियां ति:) सेवा तस्यां पर: तत्पर: स्वामिसेवातत्परः । किं विशिष्ट शची शुचिः प्राध्यः परिष्दः (परितः छाधते अनेन इति परिच्छदः पुनाम्नि घ । ५-३-१३० । इ. सू. परिपूर्वकछादधातोः घः । एकोपसर्गस्य । ४ । २ ,३४ । इ. सू. इवः ।) यस्याः सा शुचिप्राज्यपरिष्दा तां पवित्रप्रभूतपरिवारां हि निश्चितं नार्यः त्रियः नारीषु स्त्रीषु अधिकारणीया. ॥ उर्फ च-सदा प्रमाणं पुरुषा नृपांगणे रणेवाणिज्येषु विचारकर्मसु । विवाहकर्मण्यथ गेहकर्मणि प्रमाणभूमि दधते पुनः स्त्रियः ।। तदाभियोग्या विषुधा वितेनुमणिमय मंडपमिन्द्रवाचा। सं दास्यकर्मापि यशः सुगंधि, पुण्यानुवन्धीत्यनुमोदमानाः ॥४१॥
(०या०) तदेति ॥ तदा तस्मिन्नवसरे आभियोग्या विबुधाः आदेशकारिणोदेवाः इन्द्रस्य पार इन्द्रवार तथा इन्द्रवाचा मणिमयं (अभक्ष्याच्छादने चा मयः । ६ । २ । ४६ । इ. सू. मणिरादात् मयट् प्रत्ययः ।) मंडपं वितेनु: चक्रुः किं कुर्वाणाः विबुधाः स्वं दास्यकम अपि यशः सुगंधि यशसा सुगंधि किंच पुण्य मनुबनातीति पुण्यानुवंधि (अजातेः शीले । ५-१-१५४ इ. सू. शीलेऽथै बन्धधातो: णिन् प्रत्ययः ।) इत्यनुमोदमानाः दासत्वेऽपि प्रभोमंडपकरणेनास्माकं यशः पुण्यं चास्ताति हर्षवन्त इति भावः ॥ ४१ ॥