SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org , Acharya Shri Kailassagarsuri Gyanmandir श्रतनिश्रितम् ६५ 3 कथं विशेषसामान्यार्थावमहोऽवलम्बन मिति १, चेत उच्यते इह शब्दो ऽयमित्यपि ज्ञानं विशेषावगमनरूपत्वाद्वायज्ञानं, तथाहि-- शब्दोऽयं नाशब्दो रूपादिः इति शब्दस्वरूपावधारणं विशेषावगमः, ततोऽस्मात् यत् पूर्वमनिर्देश्यसामान्यमात्रग्रहणमेकसामयिक स पारमार्थिकार्थाव ग्रहः, तत ऊर्ध्वं तु यत् किमिदमिति विमर्शनं सा ईहा, तदनन्तरं तु यच्छब्द स्वरूपावधारणं शब्दोऽयमिति तदवायज्ञानं तत्रापि यदा उत्तरधर्म जिज्ञासा भवति - किमयं शब्दः शाङ्खः किं वा शाङ्ग : १ इति तदा पाश्चात्य शब्द इति ज्ञानं विशेषावगमापेक्षया सामान्यम त्रालम्बनमित्यवग्रह इत्युपचर्यते, स च परमार्थतः सामान्यविशेषरूपार्थालम्बन इति विशेष सामान्यार्थावग्रह इत्युच्यते इदमेव च शब्द इति ज्ञानमवलम्ब्य किमयं शांख: ? किंवा शाङ्ग : ? इति ज्ञानमुदयते, ततो विशेषसामान्यार्थावग्रहोऽबलम्बन इत्युक्तः, ततोऽवलम्बनस्य भावोऽवलम्बनता, ततोऽप्यूर्ध्व किमयं शांख: ? किं वा शाङ्ग इतीहित्वा यच्छांख एव शाङ्ग एव वेति ज्ञानं तदवायज्ञानं, तदपि च किमयं शांग्वोऽपि शब्द: मंद्रः किं वा तार : १ इत्युत्तरविशेष जिज्ञासायां पाश्चात्य पाश्चत्यमवायज्ञानमुत्तरोत्तरविशेषावगमापेक्षया सामान्यार्थावलम्बनमित्यवग्रह इत्युपचर्यते, किं मन्द्रः ? किं वा तारः ? इतीह मन्द्र एवायं तार एवायमित्यवायः, एवमुत्तरोत्तर विशेष जिज्ञासायां पाश्चात्यं पाश्चात्यमवाय ज्ञानमुत्तरोत्तर विशेषाव गमापेक्षया सामान्यार्थावलम्बनमित्यवग्रह इत्युपचर्य ते यदा उत्तरधर्मजिज्ञासा न भवति तदा तदत्यं विशेषज्ञानमवाय J ज्ञानमेव, नावग्रह इत्युपचर्यते, उपचार निबंधनाभावात् उत्तरविशेषाकांक्षाया अपगमात् ततस्तदनन्तरमविच्युतिरूपा धारणा प्रवर्तते, वास For Private And Personal Use Only "
SR No.010328
Book TitleJainagam Nyayasangraha
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages148
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy