________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनागमन्यायसंग्रहः
५०
नहि यद्येषु प्रत्येकं नास्ति तत्तेषुसमुदितेष्वपि भवति यथा प्रत्येक मसत् समुदितेष्वपि सिकता करणेषु तैलं प्रत्येकमसती च ज्ञानक्रिययोर्मुक्त्यवापिका शक्तिः, उक्त - पत्तेयमभावाओ । निव्वाणं समुदियालुवि न जुत्तं । नाा किरियासु वोतु' सिकता समुदाय तेल्लं व ॥१॥ छायाप्रत्येकमभावान्निर्वाणं समुदितयोरपि न युक्तम् । ज्ञान क्रिययोक्तु सिकता समुदाय तैलमिव ॥ १ ॥ उच्यते, स्थादेतत् यदि सर्वेथा प्रत्येकं तयोर्मु क्त्यनुपकारिताऽभिधीयेत यदा तु तयोः प्रत्यकं देशोपकारिता समुदाये तु संपूर्णा हेतुता तदा न कश्चिद्दोषः, श्रह च वीसु न सव्वहच्चिय सिकता तेल्लं व साहरणाभावा । देसोवगारिया जा सा समवायं मि संपुरणा ।। छाया - विष्वक् न सर्वथैव सिकता तैलवत् साधनाभावः । देशोपकारिता या सा समवाये सम्पूर्णा ||१|| अतः स्थितमिदं ज्ञान क्रिये समुदिते एव मुक्ति कारणं न प्रत्येकमिति तत्त्वम् । तथा च पूज्याः - नारणाही सव्वं नाग नओ भगइ किं च किरियाए १ । किरियाए चरण नयो तदुभयगाहो य सम्मत्तं ||२|| ज्ञानाधीनं सर्वं ज्ञाननय भगति किं च क्रियया । क्रियया ( अधीनं) चरण न यस्तदुभय ग्राहव सम्यक्त्वम् ।। १ ।। तस्माद् भाव साधुः सवैरपि नरिष्यत एव स च ज्ञान क्रियायुक्त एवेत्यतो व्यवस्थितमिदं तत्सर्व न विशुद्धं यच्चरण गुण व्यवस्थितः साधुरिति । तदेवं समर्थितं नय द्वारं तत्समर्थ ने च समर्थितानि चाप्युपक्रमाहोनि द्वाराणि तत् समर्थने च चानुयोग द्वारशास्त्र समाप्तम् ।
For Private And Personal Use Only
,