SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैनागमन्यायसंग्रहः परम्परागमः गणधरेणैव व्यवधानात् , तत ऊचे प्रभवादीनां सूत्रस्यार्थस्य च नात्मागमो नानन्तरागमः, तल्लक्षणायोगात् , अपितु परम्परागम एव, अनेन चागमस्य तीर्थकरादिप्रभवत्वभणनेनैकान्तापौरुषेयत्वं निवारयति, पौरुषताल्वादिव्यापारमन्तरेण नभसोव विशिष्टशब्दानुपलब्धः, ताल्वादिभिरभिव्यज्यत एव शब्दो नतु क्रियते इति चेत्, ननु यद्येवं तर्हि सर्ववचसामपौरुषेयत्वप्रसङ्गः, तेषां भाषापुद्गलनिष्पन्नत्वाद् , भाषापुद्गलानां च लोके सर्वदैवावस्थानतोऽपूर्व क्रियमाणताऽयोगेन ताल्वादिभिरभिव्यक्तिमात्रस्यैव निवर्तनात् , नच वक्तव्यं -वचनस्य पौद्गलिकत्वमसिद्धम्. महाध्वनिपटलपूरितश्रवण वाधिर्य कुड्यस्खलनाद्यन्यथानुपपत्तेः, तस्मान्नैकान्तेनापौरुषेयमागमवचः, ताल्वादिव्यापाराभिव्यंग्यत्वात् , देवदत्तादिवाक्यवत, इत्याद्यत्र बहुवक्तव्यं तत्तु नोच्यते स्थानान्तरनिर्णोतत्वादिति । ‘से तं लोगुत्तरिए , इत्यादि निगमनत्रयम् ।। उक्त ज्ञानगुणप्रमाणमथ दर्शगुणप्रमाणमाह मूलः--से किं तं दंसणगुणप्पमाणे ?, २ चउबिहे पएणत्ते, तंजहा-चक्खुदसणगुणप्पमाणे अचक्खुदंसणगुणप्पमाणे अोहिदंसणगुणप्पमाणे केवलदसणगुणप्पमाणे चक्खुढसणं चक्खुदंसणिस्स घडपडकडरहाइएसु इब्बेसु अचक्खुदसण अचखुदंसणिस्स प्रायभावे अोहिदसणं ओहिदंसणिस्स सव्वरुविदव्वेसु न पुण सव्वपज्जवसु केवलदंसणं केवलदंसणिस्स सव्वदव्वेसु अ सबपज्जवेसु अ, से तं दसणगुणप्पमाणे । For Private And Personal Use Only
SR No.010328
Book TitleJainagam Nyayasangraha
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherJain Shastramala Karyalaya Ludhiyana
Publication Year
Total Pages148
LanguageHindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy