SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ( १०७ ) निन्द्यो गृहस्थो न परैर्यतो भवेत् ॥ ३२ ॥ स्थिर यदा चित्तमनाकृतावपि तदा तु सिद्धस्मरणं विधेयम् । तत्सेधने साधुगृहस्थमुख्यैरात्मबोधे परियत्न एष्यः ॥ ३३ ॥ पौर्वो विधिर्योऽखिलद्रव्यभावभिन्नः स हि धौरधरोपलब्ध्यै । निर्वाणधाम्नो वरयानवत्स्यातस्य प्रवेशेऽयमिहात्मबोधः ॥ ३४ ॥ तदङ्गने पादविहारवद्यः शिवालयावस्थितिकृन्महात्मनां । तेनात्मबोधः परमोऽस्ति धर्मो यत्सेधनान्निर्वृतिरेव निश्चिता ॥ ३५ ॥ Whims निश्वयवता स्थेयं मया त्वयं सर्वो व्यवहारः साध्यते परं यदा भावधर्म उदयं समेष्यति ध्रुवं मोक्षो भात्री नान्यथा इति निश्चयपरेण भाव्यं तेन व्यवहारावसरे व्यवहारं कुर्वन् निश्चयात्मकेऽवसरे च निश्रयं कुर्वन् कुलीनो गृहस्थः न निन्यो भवेत् अत्रायं भावः उत्तमेन कुलीन गृहस्थेन येन पुण्यकर्मणा पुण्यवज्जनेषु पूर्वजैः यशोऽर्जितं तद्विपरीतं कर्म कृत्वाऽयशो नार्थनीयमिति व्यवहाररक्षा व्यवहारिणा कार्या गृहस्थेन सता मुनिधर्म सर्वोत्कृष्टं कुर्वाणः कदापि न निन्द्यो भवेदिति तत्करणे पूर्वजादधिकीभवेदिति सर्वं विचार्यम् । ५ भू ।
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy