SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ( १०१ ) ७० गताशना नीरुषवीतरागाः ॥ ७ ॥ निरञ्जना निष्क्रियका गतस्पृहाः अस्पर्धका बँन्धनसन्धिवर्जिताः । सत्केवलज्ञाननिधानबन्धुरा निरन्तरानन्दसुधारसाचितः ॥ ८ ॥ अतस्तदुत्पन्नगुणानुगामिभिमहानुभावैर्मुनिभिर्विधीयते । तेषां गुणानामनुयानमात्मा - नुरूपशक्त्या तेंदवाप्तिकाङ्क्षया ॥ ९ ॥ यद्यप्यमीषां न गुणान्समस्तान् पूर्णानिमे सेवितुमत्र शक्ताः । तथाप्यमी साधव आत्मयोग्यं - श्रित्वा बलं सिद्धगुणान् श्रयन्ति ॥ १० ॥ तथाहि सिद्धाः परिभान्त्यमूर्त्ता ७० निराहाराः । ७१ गतद्वेषाः । ७२ गतारम्भाः । ७३ व न्धनं मानसं वाचिकं कायिकं च यथा इदं तवाहं करिष्ये इति त्रिकरणेनापि मुक्ताः सन्धानं सन्धिः अमाननशीलानां भवद्भिरहं मान्यः इति सन्धिः संश्लेषः सोऽपि त्रिकरणाश्रितस्तेन मुक्ताः | ७४ पूर्णाः । ७५ साधुभिः । ७६ अनुसरण । ७७ सिद्धत्व । ७८ किं किं विचिन्त्य सिद्धगुणाननुसरन्तीत्याह ।
SR No.010318
Book TitleJain Tattvasara
Original Sutra AuthorN/A
AuthorAtmanandji Jain Sabha Bhavnagar
PublisherAtmanand Jain Sabha
Publication Year
Total Pages249
LanguageHindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy