SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ जनसिद्धांतसंग्रह । [ ४११ उपचरितासद्भूतव्यवहारस्त्रेधा । स्वजात्युपचरितासद्भूतव्यवहारो यथा- पुत्रदारादि मम । विजात्युपचरितासद्भूतव्यवहारो यथावस्त्राभरणडे मरत्नादि मम । स्वजातिविजात्युपचरिता सद्भूतव्यवहारो यथा - देशराज्यदुर्गादि मम इत्युपचरिता सद्भूतव्यवहारखेषा । www सहभावा गुणोः क्रमवर्तिनः पर्यायाः गुण्यन्ते पृथक क्रिय न्ते द्रव्यं द्रव्याद्यैस्ते गुणाः । अस्तीत्येतस्य भावोऽस्तित्वं सद्रूपत्वम् । वस्तुनो भावो वस्तुत्वम्, सामान्यविशेषात्मकं वस्तु द्रव्य -: स्वभावो द्रव्यत्वम् निजनिनप्रदेशसमूहैरखण्डवृत्या स्वभावविभावपर्यायात् द्रवति द्रोप्यति अदुद्रवदिति द्रव्यम् | सद्द्रव्यलक्षणम्. सीदति स्वकीयान् गुणपर्यायान् व्याप्नोतीति सत् उत्पादव्ययश्रव्ययुक्तं सत् । प्रमेयस्य भावः प्रमेयत्वम् प्रमाणेन स्वपरस्वरूपपरिच्छेयं प्रमेयम् अगुरुलघुर्भावोऽगुरुलरुलघुत्वम् सूक्ष्मा वाग- ' गोचराः प्रतिक्षण वर्तमाना आगमप्रमाणादभ्युपगम्या अगुरुलघुगुणा !!सुक्ष्म जिनोदितं तत्त्वं हेतुभिर्देव हन्यते । ... आज्ञासिद्धं तु तद्ग्राह्यं नान्यथावादिनो जिना : " ॥ १ ॥ प्रदेशस्य भावः प्रदेशत्वं क्षेत्रत्वं अविभागिपुद्गलपरमाणुनावैष्टव्यम् | चेतनस्य भावश्चेतनत्वम् चैतन्यमनुभवनम् । चैतन्यमनुभूतिः स्यात् सा क्रियारूपमेव च । क्रिया मनोवचः काये वन्विता वर्तते ध्रुवम् ॥ ६ ॥ अचेतनस्य भावोऽचेतनत्वमचैतन्य मननुभवनम् । मूर्तस्य भावो मृर्तत्वं रूपादिमत्वम् । अमूर्तस्य भावोऽमूर्तत्वं रूपादिरहित . htt १ अन्धयिनः । २ प्राप्नोति । ज्ञातुं योग्यं । ४ व्याप्तं । ५ अतुभूतिर्जीवाजीवादिपदार्थानां चेतनमात्रम् । ६ रूपरसगन्धस्पर्शवत्वम् ।
SR No.010309
Book TitleJain Siddhanta Sangraha
Original Sutra AuthorN/A
AuthorSadbodh Ratnakar Karyalaya Sagar
PublisherSadbodh Ratnakar Karyalaya Sagar
Publication Year
Total Pages422
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy