SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ८६ २३. शुभोऽशुभश्च । जैन सिद्धान्त दीपिका शुभयोगः -- सत्प्रवृत्तिः, स च शुभकर्मपुद्गलान् आकर्षति । अशुभयोगः– असत्प्रवृत्तिः स च अशुभकर्मपुद्गलान् आकर्षति । यद्यपि सर्वेऽयाश्रवा: कर्मबन्धहेतवो भवन्ति, किन्तु कर्मपुद्गलानामा कर्षणं योगादेव जायते । तेषां स्थितेर्दीर्घतापादनं ' अनुभागस्य तीव्रता च कषायाज्जायते । २४. योगवर्गणान्तर्गतद्रव्यसाचिव्यात् आत्मपरिणामो लेश्या । मनोवाक्कायवगंणापुद् गल द्रव्यसंयोगात् संभूतः आत्मनः परिणामो लेश्याऽभिधीयते । उक्तञ्च कृष्णादिद्रव्यसाचिव्यात, परिणामोऽयमात्मनः । स्फटिकस्येव तत्रायं लेश्या शब्दः प्रवर्तते ।। तत्प्रायोग्यपुद्गलद्रव्यम् - द्रव्यलेश्या, क्व चिद् वर्णादिरपि । २५. कृष्ण-नील कापोत-तेजः पद्म- शुक्लाः । आद्यास्तिस्रः अशुभाः पराश्च शुभाः । इति बन्ध- पुण्य-पाप-माश्रवस्वरूपनिर्णयः ।
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy