________________
श्रुतसागरसूरि
४११
महावादिस्याद्वादलब्धविजयेन तर्क-व्याकरण-छन्दोलंकार-सिद्धान्तसाहित्यादिशास्त्रनिपुणमतिना प्राकृतव्याकरणाद्यनेकशास्त्रचंचुना सूरि श्रीश्रुतसागरेण विरचितायां यशस्तिलकचन्द्रिकाभिधानायां यशोधरमहाराजचरितचम्पुमहाकाव्यटीकायां यशोधरमहाराजराजलक्ष्मीविनोद-वर्णनं नाम तृतीयाश्वासचन्द्रिका परिसमाप्ता ।
-यशस्तिलकटीका
श्रीपद्मनन्दिपरमात्मपरः पवित्रो देवेन्द्रकीतिरथ साधुजनाभिवन्द्यः। विद्यादिनन्दिवरसू रिरनल्पबोधः श्रीमल्लिभूषण इतो स्तु च मंगलं मे ।
अद: पट्टे भट्टादिकमतघटाघट्टनपटुः घटद्धर्मध्यानः स्फुटपरमभट्टारकपदः। प्रभापुंजः संयद्विजितवरवीरस्मरनरः
सुधी लक्ष्मीचन्द्रश्चरणचतुरोऽसौ विजयते ॥ ३ आलंबनं सुविदुषां हृदयाम्बुजानां आनन्दनं मुनिजनस्य विमुक्तिहेतोः । सट्टीकनं विविधशास्त्रविचारचारुचेतश्चमत्कृतिकृतं श्रुतसागरेण ।। ४ श्रुतसागरकृतिवरवचनामृतपानमत्र यैर्विहितं । जन्मजरामरणहरं निरन्तरं ते शिवं लब्धं ।। ५ अस्ति स्वस्ति समस्तसंघतिलकं श्रीमूलसंघोऽनघ, वृत्तं यत्र मुमुक्षुवर्गशिवदं संसेवितं साधुभिः । विद्यानन्दिगुरुस्त्विहास्ति गुणवद्गच्छे गिरः साम्प्रतं
तच्छिष्यः श्रुतसागरेण रचिता टीका चिरं नन्दतु ॥ ६ इति सूरिश्रीश्रुसागरविरचितायां जिननामसहस्रटीकायामन्तकृच्छतविवरणो नामः दशमोध्यायः ॥ १० ॥ श्रीविद्यानन्दिगुरुभ्यो नमः ।
-जिनसहस्रनामटीका (४) आचायैरिह शुद्धतत्त्वमतिभिः श्रीसिंहन्द्याहयैः सम्प्रार्थ्य श्रुतसागरं ( रां) कृ (कि) तवरं भाष्यं शुभं कारितं । गद्यानां गुणवत्प्रियं विनयतो ज्ञानार्णवस्यान्तरे विद्यानन्दिगुरुप्रसादजनितं देयादमेयं सुखम् ।। इति श्रीज्ञानार्णवास्थितगद्यटीका तत्त्वत्रयप्रकाशिका समाप्ता।
-तत्त्वत्रयप्रकाशिका