SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ प्रतिसूत्रं श्रीमवणुभान्यतात्पर्यम् । सूत्राङ्काः पृष्ठाङ्काः। २४ यतो ज्ञानी ज्ञानेन स्वयं यज्ञात्मको जातोतो जरामर्याग्नि- २८५ होत्रेमीन्धनाद्यनपेक्षोक्ता ॥ २ सर्वापेक्षेत्यधिकरणम् । २५ पुरुषोत्तमज्ञाने कर्मज्ञानभक्त्याख्यसर्वसाधनानामपेक्षा। यज्ञा- २८५ दिविधायकश्रुतेः । अत्र व्यवस्थापको दृष्टान्तः। अश्ववदिति । यथा दूरदेशस्थेष्टफलप्रतिबन्धकदेशातिक्रमेश्वस्य साधकत्वं नतु तद्देशस्थफलप्राप्तावपि । तथा कर्मणां ज्ञानप्रतिबन्धकान्तः करणदोषनिरास उपयोगो नतु ज्ञानफलसिद्धावपीत्यर्थः । २६ भक्तिमार्गेपि शमदमायुपेतः स्याद्यद्यपि तथापि ज्ञानाङ्गतयैव २८७ शमादिविधानाज्ज्ञानमार्गे तेषामवश्यानुष्ठेयत्वात्तथाविधिः । भक्तिमार्गे तु स्वत एव संभवान्न तेषां विधिः। २७ आहारदौर्लभ्येन प्राणात्यये प्राप्ते सर्वान्नानुमतिः श्रूयते । २८७ चाक्रायणप्रकरणे तथा दर्शनात् । २८ आपदि सर्वान्नभक्षणेन चित्तदोषासंभवाज्ज्ञानबाधो न । २८८ २९ जीवितात्ययमापन्न इत्यादिनापदि दुष्टान्नभक्षणेविदुषोपि पापं २८८ नास्तीति स्मर्यते । ३० ज्ञानित्वे सकलपापदाहाद्यथेष्टाचरणेपि न दोषः । परं साध- २८८ नदशायां दोषः । श्रुत्युक्तेः ॥ ३ विहितत्वात्कर्मेत्यधिकरणम् । ३१ विहितत्वाद्यथा शिष्टान्नभक्षणं तथाश्रमकर्माप्यनुष्ठेयम् । २८९ ३२ आश्रमकर्माणि ज्ञानान्तरङ्गशमदमादिसहकारीण्यतः कर्त- २८९ व्यानि । ३३ यदा वर्णाश्रमकर्माणि श्रवणादीनि च युगपत्प्राप्नुयुस्तदा २८९ भक्तेन श्रवणादीन्येव विधेयानि । श्रुतिस्मृतिप्रामाण्यात् । ३४ यतः श्रुतिः कर्माननुष्ठानजदोषैर्भक्तस्यानभिभवं दर्शयति । २९०
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy