SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ प्रतिसूत्रं श्रीमदणुभाष्यतात्पर्यम् । सूत्राङ्काः पृष्ठाङ्काः १५ यथा सूर्यप्रकाशः स्वतः स्थापयितुं संपादयितुं च न शक्यते १९१ तेनाव्यवहार्यः। मेघाद्यभावे च स एव घटादिदर्शन उपयुज्यते तेन व्यवहार्यः। तद्ब्रह्मापि भगवत्कृपया संनिधाने सति व्यवहार्यमन्यथा न । एवंकल्पने ब्रह्मप्रतिपादकस्य शास्त्रस्य नावैयर्थ्यम् । १६ यथा सैन्धवधन इति श्रुतिः प्रज्ञानधनमात्रं ब्रह्मस्वरूपमाह । १९२ १७ अथात आदेशो नेति श्रुतिरेव ब्रह्मणि जडजीवधर्माणाम- १९२ भावं दर्शयति । तत्र प्रपञ्चधर्मकथनमौपचारिकमेव । एतच्चौ पचारिकत्वं स्मृतेरपि संमतम् । १८ इममेव निर्णयमाश्रित्य यथा सूर्यकादयो दृष्टान्तास्तथा समः १९३ प्लुषिणेत्युपमा ज्ञेया ॥ ६ अम्बुवदग्रहणादित्यधिकरणम् । १९ जडजीवसंबन्धाद्ब्रह्मणि सर्वकामत्वादय औपचारिका इतिन १९४ संभवति जलं यथा प्रतिबिम्बं गृह्णाति तथा सर्वकामत्वादि धमैर्धर्मिणो भगवतोग्रहणात् । २० पूर्वोक्तस्य परिहारः । यथैकमेवाकाशं करकादिष्वन्तर्भावाट्ट- १९४ द्धिहासभाक्तथोभयसामञ्जस्यादेवं तत्तदनुप्रवेशाद्ब्रह्मणोपि सर्वकामत्वादयो धर्माः संभवन्ति । २१ भगवति सर्वे विरुद्धधर्मा दृश्यन्ते । २२ श्रुतिः प्राकृतधर्मवत्त्वमेव प्रतिषेधति नतु सर्वकामत्वाद्यलौकि- १९५ धर्मान् । यतो यत्रेमान्धर्मान्प्रतिषेधति तत्रैव पुनर्वदति ॥ ७ तदव्यक्तमाह हीत्यधिकरणम् । .२३ पूर्वपक्षः । ब्रह्म अव्यक्तमेव यतः श्रुतिस्तथैव वदति। १९६ २४ उत्तरपक्षः। सम्यक् सेवया तोषे भगवतो द्रष्टुं शक्यम् । १९६ ध्रुत्या स्मृत्या व ब्रह्म साकारगुणपूर्णं तेन नाव्यक्तम् ॥ ..[ अणुभाष्य ]
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy