SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ प्रतिसूत्रं श्रीमदणुभाष्यतात्पर्यम् । ८ प्रकृतिश्चेत्यधिकरणम् । २३ प्रकृतिशब्दवाच्यं ब्रह्मैव । छान्दोग्य एकविज्ञानेन सर्वविज्ञानं ११६ यत्प्रतिज्ञातं मृदादिदृष्टान्ताश्च तदनुपरोधात् । तथा च यदि मूलकारणे ब्रह्मणि समवायिकारणत्वरूपं प्रकृतित्वं न स्वीक्रि येत तदा प्रतिज्ञादिसामञ्जस्यं न स्यात् । २४ सृष्टौ भगवत्कृतमभिध्यानं स्वस्य बहुरूपत्वेनोच्चनीचभावेन ११७ च यद्विचरणं तद्धेतुत्वेनोक्तं तेन स्वयमेव तद्रूप इति सिध्यति । किंच सर्वं खल्विदमित्युपासनाप्युपदिश्यतेतोपि प्रकृतिशब्दवाच्यं ब्रह्मैव । २५ सर्वाणि ह वा इमानीति श्रुत्या ब्रह्मणः प्रपञ्चोत्पत्तिलयाधारत्वं ११७ साक्षादेवोच्यते तच्च समवायित्वस्यैव लिङ्गम् । ततोपि ब्रह्मैव प्रकृतिशब्दवाच्यम् । २६ ब्रह्मपरिणामलक्षणं कार्यमिति जगत्समवायिकारणत्वं ब्रह्मण ११७ एव। २७ सदेव सोम्येदमित्यादिषु सृष्टिबोधकश्रुतिष्ववधारणदर्शनाद् ११८ ब्रह्मैव समवायिनिमित्तेति द्वयं कारणम् । अन्यथावधारणविरोधापत्तेः । किं च कर्तारमीशमित्यादिषु योनित्वमपि ब्रह्मण एवोच्यते पुरुषत्वं च । तस्मादक्षरपुरुषभावेनोभयरूपो भगवानेव । अतः कथंचिदपि न प्रकृति प्रवेशः। २८ यत्र ब्रह्मणः सर्वविधं कारणत्वं नोच्यते ते सर्वे स्मार्तवादा ११९ अवैदिका अनुपयुक्ताश्च ॥ इति प्रथमोध्यायः ॥
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy