SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ २७' प्रतिसूत्रं श्रीमदणुभान्यतात्पर्यम् । सूत्राङ्काः पृष्ठाङ्काः। प्रत्यक्षज्ञानाभावेपि परोक्षानुभवो भवति तथा वैदिकप्रपञ्च स्यापि परोक्षानुभवो भवत्येव । २९ अस्मादेव हेतोर्वेदस्य नित्यत्वम् । ३० लोकदृष्ट्या प्रपञ्चस्य देवादीनां चानित्यत्वाङ्गीकारे तत्पवाह ९० एव शब्दसंबन्धः । लोकेपि शरीरगङ्गाप्रभृतिषु प्रवाह एव शब्दसंबन्धदर्शनात् । अतो देवादीनां तत्कर्मणां चानित्यत्वेपि तत्ववाहस्य नित्यत्वात्तद्बोधके वेदेपि नानित्यत्वं शङ्कितुं शक्यते । ३१ कर्मण्युपासने च प्रतिपादितोपि देवानामधिकारो मधुवि- ९१ द्यायां न संगच्छते तत्र मधुत्वेनोपवर्ण्यमानस्यादित्यस्य विद्याविषयत्वात्कमन्यमादित्यमुपासीत। एवं संवर्गविद्यादिष्वा दित्यादीनां विषयतया देवानामधिकारो बोध्यः । ३२ अग्निः पुच्छस्य प्रथमं काण्डमित्यादिश्रुतिष्वग्नचादीनां ९२ देवानां ज्योतिर्गणे विद्यमानत्वकथनात्तेषां च तत्र महाभोग कथनात्प्राप्तफलत्वेनोपासनायामधिकारोसंगत इति शङ्का । ३३ वेदे यथा प्राजापत्यादीनां कर्माधिकारो निरूप्यते तथा ९२ तद्यो यो देवानाम् इत्यादिना ज्ञानेपि श्रूयते। अतः कर्मणि ज्ञाने चाधिकारोवश्यमभ्युपेयः ॥ ९ शुगस्येत्यधिकरणम् । ३४ छान्दोग्यसंवर्गविद्यायां जानश्रुति हा शूद्रेत्येव संबोध्य संवर्ग- ९३ विद्योपदिष्टा । तस्माज जातिशूद्रस्याधिकार इत्याशङ्कच नात्र शूद्रशब्दो जातिवाची किंतु शुचा आद्रवतीति शूद्र इति यौगिकः । अतो योगेन जानश्रुतेर्मत्सरित्वं बोधयति तेन पूर्व स्वीकारः । पश्चाच्चापमरणेन मत्सरत्यागे विद्योपदेश इति नात्र जातिशूद्रस्याप्यधिकारः ।
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy