SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ अन्त्यकर्मदीपके नद्यादौ गत्या हस्ते जलादिकमादाय देशकालौ सङ्कीर्त्य एकादश हश्राद्धाधिकारसिद्धयर्थं स्नानमहं करिष्ये इति सङ्कल्प्य स्नात्वा धौ वाससी परिधाय पाकं निवर्त्य श्राद्धदेशं गत्वा दीपं प्रज्वलय्याचम्म पुण्डरीकाक्षस्मरणं कृत्वा एकस्मिन् पलाशपत्रे कुशमयीं पूर्व निष्पादित द्विजदम्पतिप्रतिकृतिम् अन्यं वा कुशबटुं संस्थाप्य निमन्त्रयेत् । ( स्त्रियामपि गतोसीत्येव पाठः)। गतोऽसि दिव्यलोकं त्वं कृतान्तविहितात्पथः । मनसा वायुभूतेन विप्र त्याहं नियोजये ॥ पूजयिष्यामि भोगेन ( एवं विप्रं निमन्त्रयेत् ) । ब्राह्मणमाहूय तैलाभ्यङ्गं कारयित्वोदङमुखमुपवेश्य स्वयं दक्षिणाभिमुखो भूत्वा अमुकगोत्रामुकप्रेत ( गोत्रे प्रेते ) एतत्ते पाद्यमुपतिष्ठतामिति । पादाघ सम्पाद्य अद्येहामुकगोत्रामुकप्रेत ( गोत्रे प्रेते ) एष पादार्घस्तवोपतिष्ठताम् । ततोऽन्यासने ब्राह्मणम् उपवेश्य भमावेकं कुशं संस्थाप्य तदुपरि पत्रपुटादिपात्रं स्थापयित्वा तत्रैकशिखं पवित्रं दत्त्वा जलेनापूर्य गन्धाक्षततिलादि तूष्णीं निक्षिप्य एवं कर्मपात्रं विधाय हस्ते कुशादिकमादाय अमुकगोत्रस्यामुकप्रेतस्य ( गोत्रायाः प्रेतायाः) प्रेतत्वविमुक्ति. पूर्वकाक्षयस्वर्गलोकप्राप्तये एकादशाहनिमित्तकमाद्यश्राद्धं नवश्राद्धं चापिण्डसहितं तन्त्रणाहं करिष्य इति प्रतिज्ञाय ( गोत्रायाः प्रेतायाः ) अमुकगोत्रस्यामुकप्रेतस्यैतत्कुशासनं तवोपतिष्ठतामित्यासने दत्त्वा कर्मपात्रोक्तरीत्या तृप्तिप्रश्नश्च विकिरः शेषप्रश्नस्तथैव च ॥ प्रदक्षिणा विसर्गश्च सीमान्तगमनं तथा। अष्टादशपदार्थाश्च प्रेतश्राद्धे विवर्जयेत् ॥ इति रत्नावल्याम् एकोद्दिष्टे मोटकाइयः पदार्थाः निषिद्धाः। अन्न रेखाकरणोल्मुकनिधानयोरपि निषेधात् क्वचित् पद्धतौ तदुल्लेखो भ्रान्तिमूलक एव । इदं च एकादशाहे एकोद्दिष्टश्राद्धमावश्यकम्एकादशाहे यच्छ्राद्धम् एकोद्दिष्टं समाचरेत् । यदि वाऽपि न कुर्वीत पुनः संस्कारमहति ॥ इति बृहस्पतिस्मृतेः । एकोद्दिष्टं ततः कुर्यात् मृतस्यैकादशेऽहनि । तत्र श्राद्धं न कुर्याच्चेत्पुनः संस्कारमर्हति ॥ इति शातातपस्मृतेश्च ।
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy