SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ २८ इति संवर्तवचनात् - अन्त्यकर्मदीपके अपरेद्युस्तृतीये वा दाहानन्तरमेववा । इति पद्धतिवचनात् समाचाराच्च दाहानन्तरमेव अनुष्ठीयते । चितां जलेन शान्तां कृत्वा अस्थीनि सचेप्यन् तन्निमित्तकं श्राद्धं कुर्यात् । स्थाने द्वारेऽर्धमार्गे च चितायां शवहस्तके | अस्थि संचयने षष्ठो दश पिण्डा दशाहिकाः ॥ इति गारुडवचनात् । सन्निहितयोग्य भूमौ कर्मपात्रं सम्पाद्याचम्य सङ्कल्पं कुर्यात् । अद्येह अमुकगोत्रस्यामुकप्रेतस्या स्थिसञ्चयन निमित्तकं श्राद्धमहं करिष्ये । अपसव्यं कृत्या आसनार्थे कुशं दत्त्वा अह अमुकगोत्रामुकप्रेत इदमवनेजनं तवोपंतिष्ठतान् । पूर्वं सुरक्षितं यवपिण्डं गृहीत्वा अद्येह अमुकगोत्रामुकप्रेतास्थिसञ्चयनश्राद्धे एष पिण्डो मद्दत्तस्तवोपतिष्ठताम् | अद्येहामुकगो० इदं प्रत्यवनेजनं त० | अद्येहा मुकगो० पिण्डार्चनविधाविमानि गन्धाक्षतपुष्पादीनि तत्रोपतिष्ठन्ताम् । अनादिनिधनो देव: ० ( पृ०१६ | ३ ) इति पठेत् । ततः सर्वैर्ज्ञातिभिः सह गन्धपुष्पादीनि गृहीत्वा 'नमः क्रव्यादमुख्येभ्यो देवेभ्य' इत्यर्ध्यादिकं दत्त्वा दीप प्रज्वलय्य पूर्वं स्थापितं बलिं गृहीत्वा येऽस्मिन् श्मशाने देवा: स्युर्भगवन्तः सनातनाः । तेऽस्मत्सकाशाद् गृह्णीयुर्बलिमष्टाङ्गमक्षयम् ॥ प्रेतस्यास्य शुभांल्लोकान् प्रयच्छन्तु च शाश्वतान् | अस्माकमायुरारोग्यं सुखं च ददतां चिरम् ॥ इति श्मशानवासिभ्यो बलिं सदीपं दत्त्वा विसर्जयेत् । केचित्तु अष्टौ बलीनाहुः । तत्र मूलं चिन्त्यम् । ( बलिदानानन्तरं पिण्डत्रयदानमुक्तं निर्णयसिन्धौएवं दत्त्वा बलिं चैव दद्यात्पिण्डत्रयं बुधः । एकं श्मशानवासिभ्यः प्रेतायैव तु मध्यमम् ॥ तृतीयं तत्सखिभ्यश्च दक्षिणा संस्थमादरात् । इति 1 ) ततो गव्येन पयसा अस्थीनि सिञ्चेत् । वाग्यतः पलाशशाखाभ्यां
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy