SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ देहत्यागानन्तरकृत्यंम् | 2 एते अक्षतास्तवोपतिष्ठन्ताम् । इदं भृङ्गराजपत्रं तवोपतिष्ठताम् । ततः --- अनादिनिधनो देवः शङ्खचक्रगदाधरः । अव्ययः पुण्डरीकाक्षः प्रेतमोक्षप्रदो भव ॥ इति निर्गमद्वारनिमित्त प्रार्थयेत् । इति मृतिस्थानपिण्डं दत्त्वा एवमेव कपिण्डदानं करिष्ये इति सङ्कल्प्य द्वार पिण्डं दत्त्वा विश्रामनिमित्तकपिण्डदानं करिष्ये इति सङ्कल्प्य पूर्वोक्तप्रकारेण विश्रामपिण्डं दद्यात् । ततः कृमिकेशादिनिचयरहितायां भमौ “अपसर्पन्तु ते प्रेता ये केचिदिह पूर्वजा : " इति भूमिं सम्प्रार्थ्य भूमौ दक्षिणाप्रान् कुशानास्तीयगरुचन्दनदेवदारुबिल्वादियज्ञियकाष्ठैर्दक्षिणोत्तरायतं दारुचयं कृत्वा चितानिमित्तकपिण्डप्रदानं करिष्ये इति सङ्कल्प्य पूर्ववत् चितापिण्डं दत्त्वा तत्रोत्तानं दक्षिणाशिरसं (१) प्रेतं निधाय शत्रुहस्तनिमित्तकपिण्डप्रदानं करिष्ये इति प्रतिज्ञाय पूर्वोक्तरीत्या शवहस्ते पिण्डं दद्यात् । एकं पिण्डं बलिं च सुरक्षितं ( १ ) यद्यपि “अधोमुखो दक्षिणादिक्चरणस्तु पुमानिति । सगोत्रजैर्गृहीत्वा तु चितामारोप्यते शवः ॥ उत्तान देहा नारी तु सपिण्डैरपि बन्धुभिः” । इत्यादिपुराणात् पुंसः अधोमुखत्वम् उत्तरशिरस्त्वं च दाहे शुद्धितत्वादावुक्कम्, तथाऽपि तत्रोत्तानं निपात्यैनं दक्षिणा शिरसं मुखे । इति पूर्वोक्तछन्दोग परिशिष्टवचनेन कात्यायनानुयायिनाम् उत्तानत्वं दक्षिणाशिरस्त्वमेव च स्वीकर्तुमुचिम् । एवमेवागृहीताः प्रेतस्य विधिरिष्यते । इत्युत्तरत्र छन्दोगपरिशिष्टे कात्यायनेन अनग्निमतोऽपि पात्रन्यासादिभिन्नकर्मणः अतिदेशात् । एतेन छन्दोगपरिशिष्टं पात्रन्यासाद्युक्तेः अग्निमत्परमेव इति केशाञ्चिदुक्तिः परास्ता । पूर्वोक्तादिपुराणं तु कातीयाद्यतिरिक्तपरमेव । सर्वच प्रेतकर्म अपसव्यादिपित्र्यधर्मकमेव । अपसव्येन कृत्वैतद् वाग्यतः पित्र्यदिङ्मुखः । अथाग्निं सव्यजान्वनो दद्यादक्षिणतः शनैः ॥ अस्मात्त्वमधिजातोऽसि० स्वाहेति यजुरीरयन् । इति छन्दोग परिशिष्टे सर्वेषां पित्र्यधर्माणां विधानात् ।
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy