SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ १८ अन्त्यकर्मदीप मालाभिश्चालङ्कृत्यागरुश्रीखण्ड पद्मकोशीरकर्पूरमृगमदकुङ्कुमादिसुगन्धिद्रव्यैर्यथालाभं धर्वाङ्गं विलिप्य मुखचक्षुर्ना साकर्णरन्ध्रेषु सप्तसु हिरण्यशलाकां तदभावे आज्योबन्दून्निक्षिष्य अतनूतनपट्टादिवस्त्रस्य चतुर्थभागं छा श्मशानवासिभ्यो दातुमवस्थाप्य त्रिभिर्भागैः पादतलवजं शिरः प्रभृत्यङ्गुलिपर्यन्तं प्रेतमाच्छादयेत् । एवं प्रेतं संस्कृत्य तस्य दक्षिणपार्श्वे दक्षिणाभिमुख उपविश्य बद्धशिख श्राचम्य प्राणानायम्य कृतापसव्यो यवपिष्टेन षट् पिण्डान् श्मशानवासिभूतेभ्यो देयं बलिं च पूर्वमेव सौकर्यार्थं संपाद्य मृतिस्थान पिण्डं (१) दद्यात् । सतिलकुशोदकमादाय कृतापसव्यो देशकाल मृत्वा गोत्रस्यामुकप्रेतस्य (२) मृतिस्थाननिमित्तकं पिण्डप्रदानं करिष्ये इति प्रतिज्ञां कृत्वा - १ शुद्धभूमौ कुशानास्तीर्य हस्ते कुशादिकं गृहीत्वा अद्येह अमुकगोत्रा इदमवनेजनं तवोपतिष्ठताम् | यवपिण्डं गृहीत्वा अह अमुकगोत्राकप्रेत मृतिस्थान निमित्तक एष पिण्डो मद्दत्तस्तवोपतिष्ठताम् । ततः कुशादिकमादाय अद्येह अमुकगोत्रामुकप्रेत इदं प्रत्यवनेजनं तवोपतिष्ठताम् इदं शीतलोदकं तत्रोपतिष्ठताम् । अयं गन्धस्तवोपतिष्ठताम् । (१) निर्णयसिन्धौ गारुडे षट् पिण्डदानमुक्तम् मृतस्योत्कान्तिसमये षट् पिण्डान् क्रमशो ददेत् । मृतिस्थाने तथा द्वारि चत्वरे तार्क्ष्यकारणात् ॥ विश्रामे काष्ठचयने तथा संचयने च षट् । तथा-- -आदौ देयास्तु षट पिण्डा दशपिण्डा दशाहिकाः । स्थाने चार्द्धपथेऽतीते चितायां शवहस्तके | श्मशानवासिभूतेभ्यः षष्टं सञ्चयनं तथा ॥ "स्थाने चार्धपथे द्वारि" इति क्वचित्पाठः । युक्तश्चायम् । ( २ ) अन्त्येष्टिप्रदीपे गोभिल: विहाय गतवान् स्थूलं देहं देहानुबन्धिनम् । याम्यमार्ग समापन्नः प्रेत इत्यभिधीयते ॥ यद्यपि स्थूल देहत्यागानन्तरं स्त्रीपुंसभेदाभावात् स्त्रियामपि पुंलिङ्गनिर्देश एव प्राप्नोति तथापि — प्रेतो भूतान्तरे पुंसि मृते स्याद्वाच्यलिङ्गकः । इत्यमरव्याख्याष्टतवचनेन प्रेतशब्दस्य मृतमात्रे वाच्यलिङ्गत्वबोधनेन स्त्रीसंस्कारानुवृत्तिसम्भवेन च स्त्रियां प्रेताया इत्येव वाच्यम् । एवमुत्तरत्र सर्वत्र अमुकगोत्रे अमुकप्रेते इति सम्बुद्ध्यन्तमूह्यम् । स्पष्टं चेदं श्राद्धरतावल्याम् ।
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy