SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ अन्त्यकर्मदीपके यस्मादन्नरसा: सर्वे नोत्कृष्टा लवणं विना । शम्भोः प्रीतिकरं यस्मादतः शान्ति प्रयच्छ मे ।। इति पठन्। मूल्यपक्षे-पूर्वार्धं पूर्ववत्पठित्वा शम्भोः प्रीतिकरं मूल्यदानाच्छान्ति प्रयच्छतु । इत्युत्तरार्धं पठन् दद्यात् । ब्राह्मणः स्वस्तीति । ततो दानप्रतिष्ठां दद्यात् । इति दश दानानि । अथ ऋणधेनुदानम् । गां तन्निक्रयद्रव्यं वा पुरतो निधाय प्रतिज्ञापूजादिकं पूर्ववत्कृत्वा देशकालौ सङ्कीर्त्य मम ( पित्रादेः ) ऐहिकामुष्मिकानेकजन्मार्जितदेवर्षिपितृमनुष्यादिसमस्तर्णपापक्षयद्वारा श्रीविष्णुप्रीतये इमाम् ऋणापनोदधेनु रुद्रदैवताम् ( इदमृणापनोदधेनुमूल्यममुकदैवतम् ) अमकगोत्राय ब्राह्मणाय० ऐहिकामष्मिकं यच्च सप्तजन्मार्जितं त्वृणम् । तत्सर्वं शुद्धिमायातु गामेतां ददतो मम ॥ इति, ( मूल्यपक्षे “गोमूल्यं ददतो मम" इत्यन्त्यपादं परिवर्त्य ) पठन् दद्यात् । ब्राह्मणः स्वस्तीति० । ततो दानप्रतिष्ठां दद्यात् । अद्य पापापनोदधेनुदानम् । श्वेतां गां निष्क्रयद्रव्यं वा पुरतो निधाय प्रतिज्ञापूजनादिकं पूर्ववत्कृत्वा कुशजलादि गृहीत्वा देशकालौं सङ्कीर्त्य मम (पित्रादेः) ज्ञाताज्ञातमनोवाकायकृतसकलपापक्षयद्वारा श्रीपरमेश्वरप्रीतये इमां पापापनोदधेनु रुद्रदैवतां ( निष्क्रयद्रव्यममुकदैवतम् ) अमुकगोत्राय ब्राह्मणाय आजन्मोपार्जितं पापं मनोवाकायसम्भवम् । तत्सर्वं नाशमायातु गोप्रदानेन केशव ॥ इति पठन्० मूल्यपक्षे “गोमूल्यदानात्तत्सर्वं नाशमायातु केशव" । इत्युत्तरार्धं परिकल्प्य पठन् दद्यात् । ब्राह्मणः स्वस्तीति० । ततो दानप्रतिष्ठां दद्यात् ।
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy