SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ दशदानानि । .. अथ गुडदानम् । ... अष्टसेटकमितं, सेटकत्रयमितं, यथाशक्ति वा गुडं तन्मूल्यद्रव्यं वा पुरतो निधाय प्रतिज्ञापूजनादिकं पूर्ववत्कृत्वा कुशजलादिकं गृहीत्वा अद्येह मम ( पित्रादेः) सकलपापक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं गुडं सोमदैवतं ( तन्मूल्यममुकदैवतम् ) अमुकगोत्रायः यथा देवेषु विश्वात्मा प्रवरश्च जनार्दनः । सामवेदस्तु वेदानां महादेवस्तु योगिनाम् ।। प्रणवः सर्वमन्त्राणां नारीणां पार्वती यथा । तथा रसानां प्रवरः सदैवेक्षुरसो मतः ॥ मम तस्मात्परां शान्ति ददस्व गुड सर्वदा | इति पठन् ० मूल्यपक्षे० सर्वं पूर्ववत्पठित्वा मूल्यदानादतः शान्ति ददस्व गुड सर्वदा ॥ इति अन्तिमार्धं पठन् दद्यात् । ब्राह्मणः स्वस्तीति । ततो दानप्रतिष्ठां दद्यात् । अथ रजतदानम् । पलत्रयमितं यथाशक्ति वा रजतं पुरत: संस्थाप्य प्रतिज्ञादिकं पूर्ववत्कृत्वा अद्येह मम (पित्रादेः ) सकलपापक्षयपूर्वकश्रीपरमेश्वरप्रीतये इदं रजतं चन्द्रदैवतममुकगोत्राय० प्रीतिर्यत: पितॄणां च विष्णुशङ्करयोः सदा । . शिवनेत्रोद्भवं रौप्यमतः शान्ति प्रयच्छ मे ॥ .. इति पठन् दद्यात् । ब्राह्मणः स्वस्तीति० । ततो दानप्रतिष्ठां दद्यात् । अथ लवणदानम् । षोडशपलाधिकषट्सप्ततिसेटकमितं, सेटकचतुष्टयमितं, यथाशक्ति वा तन्मूल्यद्रव्यं वा पुरतो निधाय प्रतिज्ञापूजनादिकं पूर्ववद्विधाय हस्ते कुशादिकं गृहीत्वा देशकालौ सङ्कीर्त्य मम (पित्रादेः ) सकलपापक्षयपूर्वकश्रीपरमेश्वरप्रीत्यर्थमिदं लवणं सोमदैवतम् ( मूल्यद्रव्यममुकदैवतम् ) अमुकगोत्राय०
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy