SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ पञ्चकमरणशान्तिप्रयोगः। १५ वाचनं करिष्ये । तत्रादौ निर्विघ्नतासिद्धयर्थं गणेशपूजनं करिष्ये इति सङ्कल्प्योक्तविधिना गणेशं सम्पूज्य आनोभद्रा इत्यादिस्वस्तिवाचनं पुण्याहवाचनं च कृत्वा ब्राह्मणैरभिषिक्तो ब्राह्मणान् प्रणमेत् । ब्राह्मणाश्च आब्रह्मनित्यादि पठित्वाऽऽशीर्वादं दद्युः । ततो यथाशक्ति ब्राह्मणान् भोजयित्वा दक्षिणां दद्यात् । इत्यश्वत्थपूजनादिविधिः । अथ पञ्चकमरणशान्तिः । (१)इयं च सपिण्डीकरणानन्तरं त्रयोदशाहे कार्या | तत्र पञ्चकात्पूर्व मृतस्य पञ्चके दाहप्राप्तौ पुत्तलविधिरेव, न शान्तिकम् । पञ्चके मृतस्य पञ्चकानन्तरं दाहे शान्तिकमेव, न पुत्तलविधिरिति विवेको धर्मसिन्धौ । । तत्रायं प्रयोगः प्रातः कृतनित्यक्रियः परिहितशुद्धवस्त्रः पुत्रादिर्गोमयाद्युपलिप्तायां तीर्थादिभूमौ शान्तिसामग्री सम्पाद्यासने समुपविश्य दीपं प्रज्वलय्याचम्य कुशजलादिकं गृहीत्वा पञ्चकशान्तिकर्मणि निर्विघ्नतासिद्धयर्थं श्रीमद्भगवतो गणेशस्य पूजनं करिष्ये इति सङ्कल्प्य यथाविधि गणेशं सम्पूज्य हस्ते कुशजलादिकं गृहीत्वा देशकालौ सङ्कीर्त्य अमुकगोत्रोऽमुकशर्माऽहममुकगोत्रस्यास्मत्पित्रादेर्धनिष्ठादिपञ्चकदुर्मरणजनितदोषोपशान्त्यर्थं मम गृहे सर्वेषां बालादीनां दीर्घायुरारोग्यसुखप्राप्त्यर्थं (२)ब्रह्माण्डपुराणोक्तां पञ्चक (१) "दैवात्प्रत्याब्दिकश्राद्धे त्वन्तरामृतसूतके। __ आशौचानन्तरं कुर्यात् तन्मासेन्दुक्षयेऽपि वा ॥ इति गोभिलीयवचने “आशौचानन्तरम्" इति सामान्याभिधानेऽपि सूतके एकादशदिने मृतके त्रयोदशदिने इति द्रष्टव्यम् । . मृते त्रयोदशे श्राद्ध वृद्धावेकादशेऽहनि । . इति विशेषस्मरणात्” इति नन्दपण्डितेन नैमित्तिकस्य श्राद्धस्य मृतकपाते त्रयोदशे कर्तव्यत्वबोधनात् शान्तेरपि नैमित्तिकत्वात् त्रयोदशे एवोचितत्वादिति । (२) स्वगृह्योक्तविधानेन कृत्वाऽग्निस्थापनंततः। अभिध्यानं निर्वपणं देवतानां तथा शृणु॥ वसवो वरुणश्चैव अजैकपात्तृतीयकः। अहिर्बुध्न्यश्चतुर्थश्च पूषा वै पञ्चमस्तथा ॥
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy