SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ अश्वत्थपूजादिविधिः । ९३ वसानः सुकृतस्य लोके तत्र गच्छ यत्र पूर्वे परेताः ॥ ( य० सं० १३/३१) इति पठित्वा ( १ ) पाणिना दीपं प्रच्छाद्य ( निर्वाध्य) हस्तौ पादौ प्रक्षाल्याचम्य यस्य स्मृत्या च० प्रमादात्कुर्वतां ० कायेन वाचा० चतुर्भिश्च ० इति पठित्वा अनेन सपिण्डीकरणश्राद्धेन श्रीभगवान् यज्ञपुरुषः प्रसन्नोऽस्तु ॐ तत्सन्न ममेति वदेत् ॥ इति सपिण्डीकरणश्राद्धप्रयोगः । यथाश्वत्थपूजा | अश्वत्थसन्निधौ गत्वा दीपं प्रज्वलय्याचम्यार्घं संस्थाप्य प्राणानायम्य हस्ते जलादिकमादाय अमुकगोत्रोऽमुकशर्माहं सपरिवारस्य ममोत्तरत्र शुभफल प्राप्त्यर्थं तथाऽमुकगोत्रस्यामुकशर्मणोऽस्मत्पितुरक्षयतृप्तिकामनया विष्णुस्वरूपस्याश्वत्थस्य पूजनं षष्टयधिकशतत्रयसंख्याकजलकुम्भैः (अधिमासपते नवत्यधिकशतत्रयसंख्याकजलकुम्भैः ) अभिषेचनं च करिष्ये इति संकल्प्य नमोस्त्वनन्तायेति ॐ विष्णुरूपायाश्वत्थाय नम इति च पाद्यार्घाचमनीयवस्त्रगन्धाक्षतधूपदीपनैवेद्यादीनि भूषणार्थे द्रव्यं च समर्प्य त्रिसूत्र्या संवेष्टयाश्वत्थं सिञ्चेत् ॐ अश्वत्थ विष्णुरूपस्त्वं नमो धरणिसम्भव | अद्भिरन्नैश्च शाकैश्च विगतासून् यतस्ततः ॥ तत्र तत्र स्थितान्नित्यं तर्पयस्व पितृन्मम । सेचयामि जलैरद्य नमो नारायणात्मने || इत्यभिषिञ्चेत् । (२)ततो नूतनवस्त्रं धारयित्वा यज्ञोपवीतं च परिव ( १ ) निवृत्ते पितृमेधे तु दीपं प्रच्छाद्य पाणिना । प्रक्षाल्य पाणी आचम्य ज्ञातीन् शेषेण भोजयेत् ॥ . इति श्राद्धत ( २४८ ) देवलस्मरणात् श्राद्धान्ते दीपप्रच्छादनं लभ्यते । अन्न प्रच्छादनमाच्छादनमात्रं, न तु निर्वापणम् । निर्वापणात् पुंसः कूष्मा डच्छेदनात् स्त्रियाः । अचिरेणैव कालेन वंशनाशो भवेद्ध्रुवम् ॥ इति नव्यवर्धमानष्टतवचनादिति तत्रैव रघुनन्दनः । ( २ ) एवं सपिण्डनं कृत्वा क्रियावस्त्राणि संत्यजेत् । शुक्लाम्बरधरो भूत्वा शय्यादानं प्रदापयेत् ॥
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy