SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ अथ दिनिर्णयकथनं नाम तृतीयोऽध्यायः ॥ आदौ कालं परीक्षेत सर्वकार्यार्थसिद्धये । कालो हि सर्वजीवानां शुभाशुभफलप्रदः ॥ १ ॥ कालातिक्रमणे दोषो द्रव्यहानिश्च जायते । देवानामपि देवीनां विप्रादीनां विशेषतः ॥ २ ॥ प्रासादभवनारम्भे स्तम्भस्थापनकर्मणि । द्वारस्थापनवेलायां भवनानां प्रवेश || ३ | वापीतटाकनिर्माणे गोपुरारम्भकर्मणि । विमानमण्डपारामगर्भगेोद्धृतों तथा ॥ ४ ॥ तृतीयोऽध्यायः ॥ 1 आदौ कालमिति । परमेश्वराज्ञया संकल्पितः सूर्यादि - प्रहपरिवर्तनेन वसन्तोऽयं कालः, प्रीष्मोऽयं काल इति व्यवहियमाणः समयो यः शुभफलप्रद इति ज्योतिस्तन्त्रपारगैनिर्णीतः, तस्मिन्नेव समये स्वजन्मनक्षत्राद्यानुकूल्यभाजि प्रासादभवनादिनिर्माणं कार्यमिति भावः । देवानां देवीनामालयनिर्माण विशेषतो विप्रादिचतुर्वर्णजानां गृहारम्भे चेदं शुभकालनिरीक्षणं श्रेयस्करमिति बोध्यम् ||
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy