SearchBrowseAboutContactDonate
Page Preview
Page 821
Loading...
Download File
Download File
Page Text
________________ 266 तन्मध्ये देवपीठस्तु चाधिष्ठानादिभिर्युतः । चतुरश्राकारत लैरनेकैर्युतमस्तकम् ॥ २४ ॥ तस्योपरि विमानादिकल्पनं शुभदं भवेत् । गन्धर्वाद्यनेकदेवताबिम्ब जालानि दारुमयान्ययःकीलघटितानि वर्णयोजन सहितानि वा प्रकल्पयेत् । एवं चक्रयुग्यो परि अधिष्ठानकल्पनमुपर्युपरि क्रमाश्चतसृषु दिक्ष्वपि वृद्धियुतं प्रतितलं बहुचित्रचित्रितं कारयित्वा तदुपरितले एकपुरुषौन्नत्याधिक्यप्रमाणयुतानां नानास्तम्भानां चित्रोपेतानां स्थापनं कार्यम् | किन रथकल्पनस्याधिष्ठानो परितले क्रमपङ्किरीत्या एवं स्थापितानामेतेषां स्तम्भानां मध्यभागे विशालाङ्गणे स्थापितोच्छ्रिताधिष्ठाने देवी सहितस्य कार्यमिति विवेकः ॥ मध्य देवबेरस्यासनस्थापनं किश्चैवमत्र रथमध्यभागे देवबेरासनपीठस्थापनानन्तरं तेषु स्तम्भेषूपरितलेषु मिथो दृढबन्धनयुक्तं प्रस्तरावलीप्रमुखकार्यजालं विरचय्य तदुपरि प्रथमतलं चतुरश्रं कल्पयित्वा सत्प्रमाणात्किचिन यूनप्रमाणं द्वितीयतलं स्थापयेत् । एवं द्वितीयतलात्किश्वित्प्रमाणहीनं तृतीयतलकल्पनमित्यादिक्रमेण दारुमयतलसप्तकोपेतं वा, तलनव कोपेतं वा तलैकादशकोपेतं वा रथकरूपनं सर्वमप्ययः कीलादिघटितदारुपट्टिकाखण्डादिसहितमेव कारयित्वा
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy