SearchBrowseAboutContactDonate
Page Preview
Page 816
Loading...
Download File
Download File
Page Text
________________ नन्दी च भगवान्गौरीकान्तपादाब्जधारकः ॥१४॥ मूषकश्च गणाध्यक्षधारकश्चोर्ध्वपत्रकः । याली गजगणाकर्षव्यग्रतुण्डो बलान्वितः ॥ १५ ॥ पूर्ववदत्रापि हनूमद्वाह ननिर्माणे हनुमतश्शरीरं मानुषाकार मुखभागे केवलं हनूमचिह्नोपेनं कटीतटपृष्ठभागे पृथुलवालधियुतं स्वस्कन्ध भागे स्थितदेवबेरम्य पादाम्बुज धारणोद्युक्तोद्धृतहस्तयुगलं प्रकल्पयेत् । अनेनैव प्रकारण नन्दिवाहनमपि नन्दिदेव स्वरूपयुतं वा वृषस्वरूपयुतं वा स्वस्वेच्छाधीनं स्थापयेत् । वैनतेयपावमानिनन्दिवाहनानां देवकायकल्पने मनुष्यका यकल्पने च यज्ञोपवीत. प्रमुख भूषावलीकल्पनमवश्यं करणीयमिति विवेकः ॥ १४ ॥ अथ मूषकवाहलक्षणमाह -मृषक इति । भगवतो गणनायकस्य बेरावाहितदिव्यशक्तेर्वाहनन्तु मूषकः । तस्य वाहनस्य स्वरूपन्तु यथा वा लोके जीविनो मूषकस्य शरीरं दृश्यते तथैव वाहनकल्पनेऽपि करचरणलागूलाद्यवयवनिर्माण कार्यमिति । तस्मात्तस्य मूषकवाहनम्य स्कन्धतले गणनाथबेरस्थापनपीठयोजनं शिल्पिभिदृढं कारयेदिति मर्यादाक्रमः || अथ यालीवाहनलक्षणमाह-यालीति । सर्वत्र लोकेऽरण्यतलवासिषु गजतुरगादिषु सिम एव वलीयान् । अत एव तस्य मृगेन्द्र इति नाम प्रसिद्धम । तस्मात्ताशसिमादप्यधिकबलान्यों
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy