SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ अथ शिवबेराणां भेदक्रमकथनं नाम अशीतितमोऽध्यायः॥ कैलासाधिपतिश्शम्भुर्लोकानुग्रहकाम्यया । भक्तैस्संप्रार्थितः पूर्व वनमध्ये नदीतटे ॥१॥ भूधरस्य तटे मौलौ वृक्षमूले शुभस्थले । स्वां मूर्ति देवदेवेशो दिव्यां प्रादर्शयच्छुभाम् ॥२॥ मानवा तनुमाश्रित्य क्वचिल्लिङ्गीमनेकधा । भूलोके देवदेवस्य तस्य वैभवमुत्तमम् ॥३॥ ज्ञात्वा हर्षेण मुनयः प्रणेमुश्च सहस्रशः। देवाश्च मुदिता आसन्ब्राह्मणा वेदपारगाः ॥४॥ अभिषेकैः पूजनैश्च नैवेद्यैर्विविधैरपि । ॥ अशीतितमोऽध्यायः॥ अथास्मिन्नशीतितमेऽध्याये मकलविधशिवराणां भेद. लक्षणक्रममुपपादयति - कैलासाधिपतिरित्यादिना । पू:कृतयुगत्रेतायुगद्वापरयुगाख्येषु कालेषु, कैलासाधिपति:=उमानाथः तत्तत्कालोदितभक्तश्रेष्ठैः संप्रार्थितरसन्निहलोकस्थितान्मानवान्सर्वानप्यनुगृहीतुं नदीवनमहीधरादि स्थानेषु वल्मीकलिङ्गज्योतिर्लिङ्गाघनेकविधदेवशरीरेण, क्वचिन्मानवशरीरेण चाविरासीत् । तदादि सुकृतशालिनो ब्राह्मणक्षत्रियवैश्यादयस्तदीयमूर्तीर्दिव्याः प्रणिपत्य s. S. 97
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy