SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ ७४१ प्रतिलोमानुलोमाभ्यां मानं तस्य द्विधा भवेत् । पादपादप्रमाणेन वर्धयेन्नृपमन्दिरे ॥ ४ ॥ देवेऽधिकं प्रमाणं वा तत्सम वा क्वचिन्मतम् । रसवर्धकचिह्नञ्च योजनीयमिति क्रम इाते शिल्पिवर्गायोपदेशः । इदमेव लक्षण स्पष्टमवैव विवृणोति शास्त्रकार इत्यलम् ।। तस्मादेवं द्विविधमपि प्राकारनिर्माणं तत्तत्स्थलकल्पितकल्पनानुगुणं स्थापनीयमिति प्रतिलोमपनः । अनुलोमपक्षस्तु प्राकारोन्नत्यानुगुणमेव तदन्तम्स्थं कल्पनं करणीयमिति । अयं तु अनुलोमपश्नः प्रायशः दैविकप्रासादालयशालामण्डपादिनिर्माणेष्वेव योज्य इति शिल्पसमयविदः ॥ किञ्च पादपादप्रमाणेनेत्यत्रायमर्थो बोध्यः। यथाराक्षां सन्ततवासार्हमूलस्थानस्यासन्नस्थले कल्पितस्य प्रथमप्राकारस्य द्वादशहस्तप्रमाणोन्नत्यं यदि कृतं तर्हि तस्य प्राकारस्यानन्तरस्थल कल्पितस्य द्वितीयप्राकारकुड्यस्य पञ्चदशहस्त प्रमाणोन्नत्यं कल्पनीयम् । अनेनैव प्रकारेण परस्परं पादप्रमाणाधिक्यवदिति । तथा च तृतीयप्राकारस्याष्टादशहस्तप्रमाणोन्नत्यं योजनीयमिति क्रमः पादपादप्रमाणवर्धनरीत्या कार्य इत्यर्थः । एवं नगरदुर्गप्राकारकुड्यद्वाराणां सर्वेषामप्योन्नत्यक्रमः । किश्च देवालयवास्तुकृतप्रथमप्राकारकुड्यस्यौनत्यप्रमाणात् पादप्रमाणाधिकप्रमाणं
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy