SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ तत्कल्पनकलं (सम) कृत्स्नं विमानाधिष्ठितं मतम् । मण्डलञ्चतुरश्रं वा व्यासाधिक्यं क्वचिन्मतम् ॥ ३॥ गजपृष्ठाकारवद्वा चापाकारं क्वचिन्मतम् । आधारमानद्विगुणं त्रिगुणं वा चतुर्गुणम् ।। ४ ॥ औनत्यं कल्पयेत्तस्य मुखवर्धनसंयुतम् । लसूण सक्यार्थः । प्रतिलोमक्रियाप्रमाणं नाम गर्भगृहम्य तस्य यावत्प्रमाणमधिष्ठानमन्नित्यादिकश्च योजितम , तदौन्नत्यानुगुणमेव विमानकल्यनस्यास्य स्थापनमिति ॥ किञ्च पूर्वोक्तस्य गर्भगृहस्यान्तःस्थलस्य देवताबिम्बसान्निध्यसहितस्य च यावद्वैशाल्यं देय॑च्च योजितं तावद्वैशाल्य. दैर्घायुतमेवास्य विमानस्याधिष्ठानं कार्यमिति नियमः। एवं कचिन्मण्डलाकारगर्भगृ हस्थापने, चतुरश्राकारगर्भगृहस्थापने व्यासाधिक्यप्रमाणगर्भगृहस्थापने, गजपृष्ठाकारगर्भगृहस्थापने, चापाकारगर्भगृह कल्पने यादृशशैल्या गर्भगृहभित्तिनिर्माणं कृतं तादृशशैल्यैव तदुपरिकल्पनीयस्य विमानम्याधोभागेऽधिष्ठानकल्पनं स्थापनीयमिति विवेकश्शिल्पिभिर्विज्ञेय इति क्रमः ।। तस्मादस्य विमानकल्पनस्योन्नत्यं कियत्प्रमाणमिति चेत् तद्विवृणोति - आधारमानद्विगुणमित्यादिना। यावदोनत्यप्रमाणं गर्भगृहस्याधिष्ठाने योजितं तन्मानद्विगुणोन्नत्ययुतं वा तन्मान
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy