SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ अथ विमानलक्षणकथनं नाम पञ्चसप्ततितमोऽध्यायः ॥ सर्वेषामपि देवानां देवीनामपि मेविनाम् । गर्भगेहस्य मौलो यत्कल्पनं रक्षणार्थकम् ॥ १ ॥ तद्विमानमिति प्राहुश्शिल्पशास्त्रविशारदाः । प्रतिलोमकियां तत्र स्थापयच्छिल्पकोविदः ॥ २॥ ॥ पञ्चसप्ततितमोऽध्यायः ॥ अत्रायमस्माकमभिप्रायः। यथा--पूर्वोक्तरीत्या त्रिसप्ततितमे अध्याये गर्भगृहलमणप्रतिपादनानन्तरमेव तस्य गर्भगृहस्योपरितले कल्पनीयम्य विमानस्य लक्षणं चतुरसप्ततितमेऽध्याये वक्तुं युक्तं प्रकरणौचित्यान् । तथापीदं विमानलक्षणमत्र मातृकायां पञ्चसप्ततितमाध्याये पठितं दृश्यते । तदयं शास्त्रकारपठनशैलीक्रमो बा मातृकालेख प्रमादो वेति । अतः पूर्वोक्तस्य देवानां देवीनां भक्तानाञ्च बेररूपाणां सततनिवासार्हस्य कल्पितस्य गर्भगृहकल्पनस्योपरि मौलितले तस्य गर्भगृहकल्पनस्य संरक्षणार्थ यत्तु कल्पनं क्रियते, तदिदं विमाननामभाग्भवतीति शिल्पशास्त्रपारङ्गतानामाशयः ॥ ___तस्मात्तदिदं विमानकल्पनं प्रायशस्सर्वेष्वपि देशेषु सर्वास्वपि कल्पनशैलीषु प्रतिलोमक्रियाप्रमाणमाश्रित्यैव स्थापयेदिति
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy