SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ कल्पनं विविधाकारं कण्ठालस्थलसंयुतम् ।। ८॥ वकुलस्तिनिशोऽश्वत्थो वटश्च ककुभादयः। वर्धयेत्तान्त्रिशेपेण छायावृक्षाश्च ये मताः ॥ ९ ॥ पक्षयारुभयोरेवं विश्रान्तिस्थानकषु च । कूटिकामुखभागेषु मार्गमेलनकेषु च ।। १० ।। वैशाल्यं द्विगुणं स्थाप्यं कल्पनं तत्र सम्मतम् । मार्गलक्ष्मशिलोपेतं स्थानलक्ष्मशिलं क्वचित् ॥ ११ ॥ किञ्च तादृशमार्गप्रान्तभियतलयोः बकुलतिनिशाश्वत्थवटककुभादीञ्छायातरून्वर्धयित्वा तदधोभागेषु कण्ठाल स्थापनस्थलमेक हस्तप्रमाणोन्नतिकं शिलाकल्पनभिष्टिकाकल्पनं वा कचिसोपानं प्रकल्पयेत् । किञ्चतादशलक्षणान्वितरयास्य मार्गस्य कचिन्मार्गान्तरमेलने सति तत्स्थाने द्विगुणितप्रमाणं वा, त्रिगुणितप्रमाणं वा वैशाल्ये योजनीयम । एवमेतादृशमार्गतले कचिद्विश्रान्तिस्थानस्थलेषु कुटिका मुखाख्यरक्षकावासस्थानेषु च किञ्चिद्धशाल्याधिक्यं कार्यमिति लक्षणवाक्यार्थः । अपि चैतादृशरक्षकावासस्थानकल्सनलक्षणादिकन्तु उत्तराध्याये प्रतिपादयिष्यते ।। किञ्चैषु मार्गभागेषु नगरानगरान्तरदूरज्ञानार्थमेकघटिकाकालगमनायं शिला, घटिकात्रयकालगमनाईयं शिलेत्यादिदूरप्रमाणप्रदर्शकचिह्नितां शिलां कचित्तत्तद्रामपुरनगरारण्यमहीधरादि. B.S. 85
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy