SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ ६०० क्वचित्तदधिकं वापि स्थलयोग्यं प्रकल्पयेत् । षोडशांशं द्वादशांशमष्टांशं चतुरंशकम् ॥ २० ॥ विभजेजन्म वेदिरचनामत्र योजयेत् । सपादं वा पादहीनं पृष्ठकट्यादिभूषितम् ॥ २१ ॥ श्रीकान्तं सौम्यकान्तं वा गान्धर्व कान्तमेव वा । नानालङ्कारसंयुक्तं कल्पयेन्नृपवेश्मनि ॥ २२ ।। किम्वेतादृशमानववेदिकायाः कल्पनं चतुरअं व्यामही नं कचित्पावथभित्त्यादिकल्पनानुगुणं रेग्वातर्जनीरूपमेव (८)माकारं वा तवत्यस्थलानुकूलं स्थापनीयमिति भावः । किश्च ताहशाकारवेदिकाप्रकल्पने तदौन्नत्यं षोडशधा वा द्वादशधा ऽष्टया चतुर्धा वा यथाभिरुचिस्थलविभवं नाशभागेष्वधिष्ठानलक्षणरीत्या कम्पवाजनप्रतिवा जनपद्मादितमणक्षेपणवर्धनादिकं कारयेदिति क्रमः । कुतः ? शोभार्थम । अतः एतादृशकल्पनाविशेषादिभासुरमिदमेव मानववेदिकानिर्माणं पादयुतं वा कचित्पादविहीन वा यथाभिरुचि यथास्थलमानं प्रकल्पयेदिनि च क्रमः कल्पनाप्रकारः ॥ एवमत्र पादकल्पनेषु येन द्रव्येण वेदिका निर्मीयते, तेनैव द्रव्येण पादकल्पनमपि श्रेय इत्युत्तमः पक्षः। वर्णान्तरद्रव्यान्तर. सङ्कलनमधमः पक्ष इति शिल्पक्रियाविदः ।।
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy