SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ ५९५ एकहस्तं द्विहस्तं वा त्रिहस्तमथवा कचित् ॥ ८ ॥ सूत्रमानमिदं प्रोक्तं देवगारे विशेषतः । भागस्थापनीयानां देवीप्रमुखानान्तु वेदिका पृथगेवेति । एवं कल्पने मध्यस्थ देववेदिकाप्रमाणापेक्ष या पार्श्वस्थिनदेवीवेदिकायाः किञ्चित्प्रमाणहीनतेव शस्तेति । अपि चात्र वेदिकायाः प्रमाणं कियद्वति चेन - गर्भगृह प्रमाणादर्धमानं वा कचित्तदर्धमानं वा वैशाल्ये योज्यमिति । औन्नत्ये तु तत्तत्तालबेरीन्नत्यानुगुणं एकहस्तद्विहस्तत्रिहस्तादिमानमिति तत्क्रमः । तस्मादेता दृशवैशाल्योन्नत्यवनां नानारूपाणां वेदिकाकल्पनानामल क्रिया तु कटिसूत्राख्यवर्धनचित्र, कचिन्निम्नकम्परूपं वा, योजयदिति क्रियाकौशलविदः ॥ एवमेव शैल्याऽव वेदिकाकल्पने विशेषतो नानारूपकिङ्किणीयोजनं कर्णनामाख्यचिवादिरचनाञ्च प्रान्तभागेषु चतुर्वपि भ्रकुट्याख्यचित्राकार...... च मुखवालादिकल्पनश्च शोभाथं संयोजनीयमिति क्रमः । किश्च पूर्वोक्तरीत्याऽत्र दैववेदिकाकल्पने पार्श्वभागे पूपरि यद्यन्मनोहरचित्ररचनादिकं तत्सर्वमपि यथामानं कल्पयित्वा टङ्कादिना कचित्तक्षयित्वा तादृशवेदिकाया मध्यभागे समश्नक्ष्णितशिलाम यवासुदेव शङ्करलिङ्गादिबिम्बजालं स्थापयेदिति क्रमः ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy