SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ महावासनिकायुक्तग्रामशैलीमनोहरम् । स्थापयन्मानविच्छिल्पी ग्रामगेहादिकल्पनम् ॥ २३ कचिच्छालागृहोपेतमनेकतलभूषितम् । नानाचित्रादिसंयुक्तभित्तिकल्पनवेशकम् ॥ २४ ।। किश्च प्रामगृहादिषु सर्वेषु द्वाराणां द्वादशकमवश्यं स्थाप्यम् । न तन्न्यूनतेति भावः । परन्तु क्षुद्रग्रामगृहादिषु किश्चिद्धीनप्रमाणद्वारस्थापनस्तम्भस्थापनवातायनस्थापनाच्छादनस्थापनादिरित्ययं क्रमस्तु स्थलकल्पनौचित्यद्योतक इति सामञ्जस्यं पश्यन्ति शिल्पवेत्तारा ।। किम् पूर्वोक्तरीत्या महाग्रामकल्पनीयभवनमहासदननिकेतनादिनिर्माणविशेषे तु मध्यभागे वास्तुनाथस्थाने नवरङ्गस्थानके वा महावासनिकाख्यं महामण्डपाकारकल्पनं स्थापनीयम् । किमर्थ ? तस्मिन्नेव किल महावासनिकमण्डपे बन्धुप्रमुवैः कुशलादिसल्लपनं, कस्मिंश्चित्समयेऽमलीलादिकं, समयान्तरे युवतिभिः श्रेयसे गौरी कल्याणगानपठनादिरिति । एतदर्थमिदं कल्पनीयं महावासनिककल्पनं सौधत्रयभासुरमथवा सौधद्वयोल्लसितं क्वचिदेकसौधभाग्वा नानाचित्रादिमनोहरं सगवाक्षादिरचनं प्रकल्पयेदिति फलितार्थः ॥ किश्चैतादृशमहावासनिककल्पनभित्तिभागेषु शालाभित्तिषु
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy