SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ ५५० सौधं शावल मिश्रं कल्पभेदप्रमाणकैः ॥ १० ॥ वीथीषु च प्रतोलीषु नमिश्रं कारयद्बुधः । दृढभूलम्बनोपेतः कल्पस्सर्वव कीर्तितः ॥ ११ ॥ प्रतिलोमानुलोमाभ्यां तत्र मानमुदीरितम्। कल्पनीयभवनकल्पनं तावत्रिविधरूपं भवति । यथा- दारुस्तम्भसुषिरस्तम्भादिधारित सौधभव नरूपं, सुषिरकल्पनसौधकल्पनादि विना शावलकवक्रेष्टिकाद्याच्छादितमहासदनरूपं, कचित्कचिदेतदुभयकल्पनमिश्रितनिकेतनरूपमिति । एतेषु त्रिविधेष्वपि कल्पनेषु निर्माणभेदप्रमाणभेदादिकं स्थलाधीनम , कचिदिच्छाधीनं वा योजनीयमिति शिल्पसमयः ॥ किश्च वीथीषु महावीथीषु प्रतोलीषु विशिखासु चोभयपक्षसदनावलीः सौधभासुराः, क्वचिच्छावलकाद्याच्छादनभासुराः स्थापयित्वा, क्षुद्रवीर्थी प्ववान्तरवीथीकोणस्थलेष्वपि भिश्रद्रव्यगृहकल्पनं कार्यमिति शास्त्रकारः । कुनः ? शोभादये । तस्मादेवं कल्पनीयेषु महाग्राम गृहादिपु सर्वत्र कल्पननिर्माण दृढालम्बनोपेतं दृढतरभूमिलम्बनभित्तिस्थापनस्तम्भादितिर्यग्दारुसम्मेलनसन्धिबन्धनोपेतं उपरितनसौधादिकल्पनभारवहनक्षम कल्पनीयमिति लक्षणवाक्यार्थः ॥ ११ ॥ किञ्चैवमत्र महावीथीप्रतोल्यादिस्थानेषु गृहकल्पने प्रमाणन्तु
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy