SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ ५४७ युग्मस्तम्मालिन्दशालातूलपट्टादिभियुतम् ॥ ५ ॥ पार्श्वयोरुभयोरपि समदेयं वा वेदीप्रकल्पनं, तदनुगुण द्वारस्थापन च प्रकल्पनीयमिति तद्रचनाक्रमो बोध्यः । एवं वेदिकादैर्यविकल्पः । वैशाल्यन्तु सर्वत्र तुल्यमेवेति ॥ एवं ब्राह्मणानां प्राथमिकद्वारसमीपे बहिर्वेदीकल्पनन्तु वाङ्गकौसलद्राविड्याख्यासु शैलीवेवाभिमतम् । पाञ्चालमागधशौरसेनाख्येषु शैल्यन्तरेषु देहलीभागे मध्यतलं विहायोभयतः, कचिच्चतुम्स्थलेऽन्तर्वेदीप्रकल्पनं प्रसिद्ध मिति समयः । तस्मादननैव प्रकारेण पााल्यादिषु सप्तविधशैलीकल्पनेषु सर्वेष्वपि स्थलभेदेन, प्रमाणभेदेन, रचनाभेदेन च निर्माणानां बहूनां भेद ऊह्यः शिल्पक्रियादरैरित्याशयः ।। किश्चैवमत्र प्रथमद्वारं तत्समीपे बहिःस्थले वेदिकाश्च स्थापयित्वा तादृशवेदिको पर्यग्रभागे युग्मसंख्यास्तम्मान स्थापयेत् । एवमलिन्दभागे कल्याणशालायां कल्पनान्तरे नानाङ्गणप्रान्तभागेषु चत्वरप्रान्तेषु च युग्मसंख्याकस्थूलदारुखण्डान् कचित्तत्संख्याकान स्तम्भांश्च प्रकल्पयेत् ॥ किश्चात्र क्षुद्रग्रामगृहेषु देहलीतरणानन्तरं द्वितीयद्वारततम्सव्यपसव्ये च भागे विवाहशालां, कचिन्मध्यचत्वरप्रान्ते महाशाली निर्मापयित्वा, पाश्चात्यभागसमीपे नानाविधद्रव्य
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy