SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ ५३८ महाचत्वरयुक्तं वा महाङ्गणसमावृतम् || ६ || सामन्तानां क्षत्रियाणामुत्तमासनयोग्यकम् । कारयेन्मतिमान् शिल्पी हर्म्यकं शिखरोज्ज्वलम् ॥ अथ युवराजभवनलक्षणकथनम् युवराजस्य भवनमन्त बहिरेव वा । --- महाशालाचतुष्कं प्रकल्पयेत् ॥ अथवा पूर्वोक्तमध्यस्थाने चत्वरस्थलं चन्द्रिकातपादिपतनयोग्यं निरावरणं प्रकल्पयित्वा तत्स्थलं परितश्व तुझ्शालाकल्पन मथाऽष्टशाला कल्पनं कचिदतिदीर्घमहाङ्गणं वा तत्कल्पनान्तः प्रवेशयित्वा सावरणं कल्पनान्तरमपि तदन्तविधाय तत्र भागेषु समुचितेषु शयनासनभोज्यासनस्थानादीनि स्वेच्छाधीनं सममानशिखरकल्पनानि प्रकल्पयेदिति लक्षणवाक्यार्थः || , किचात्र सचिव सेनानायकहर्म्यकल्पनस्य पूर्वभागे राज्यकार्यनिर्वहणाइये समुचितेषु समयेषु आगमनशीलानां सामन्तभूपालादीनामामनसहितं तत्कर्यावहं मञ्जुलाकारं कल्पनमेकं पृथगेव कल्पनीयमिति सङ्ग्रहेण सचित्र सेनापतिहर्म्यलक्षणं प्रतिपाद्याधुना युवराजभवननिर्माणक्रमं युक्तमिति तत्स्थलं निर्दिशति - अन्तर्वेत्यादिना । चक्रवर्तिभूपालादिक्षत्रियाणां प्रासादुत्रास्तुभागस्यान्तरेत्र प्रायशो युवराजभवननिर्माणं कार्यम् ।
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy