SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ ५३७ मण्डलाकारमध्यस्य शालकं सोपशालकम् । तत्र द्वारचतुष्कोणयुक्तं कल्पनकं बहिः ॥ ५ ॥ अष्टशालासमायुक्तं मध्यद्वारसमुज्ज्वलम् । योजनीयमिति क्रमः। आप्रथमद्वारमा चान्तिमद्वारं सूत्रविधानेन तत्तत्कल्पनाह भित्तिस्थापनाद्यविरुद्धं तन्मानकल्पनं वरमिति सतामाशयः ॥ किश्चैतादृशप्रमाणपरिकल्पनयोग्यस्य मध्यस्य मुख्यकल्पनम्य मध्यभागस्थलमतिवैशाल्योपेतं मण्डलाकारनिर्माणयुतं प्रकल्पयित्वा तन्मध्यभागे षोडशभिरथवा द्वादशभिरष्टभिरथवा चतुर्भिस्तम्भकैरुपेतां मध्यशालां सुषिरकल्पनचित्रादिमनोहराकृतिं स्थापयेत् । कचित्तस्याश्शालायाश्चतुर्वपि वा भागेषु भागत्रये देयोपेत. क्षुद्रशालापरिकल्पनमप्युपकारादय इति कल्पनस्यास्योपशालाकानमिति विदुः ॥ किञ्च तादृशोपशालाकल्पनस्य मध्यतले समसूत्रप्रसारद्वार. चतुष्कं स्थापयित्वा तद्वहिश्च स्थले कल्पनीयक्षुद्रशालाक्षुद्रसदनादिकल्पनाविरुद्धं वेदिकानिर्माणाविरुद्ध सावरणं कल्पनं कल्पनीयम् । अयमेकः प्रकारः । प्रकारान्तरं तु पूर्वोक्तरीत्या मण्डलाकारमध्यस्थले नवरङ्गमण्डपकल्पनं विधाय तस्य चतुर्वपि दिग्भागेषु चतुश्शाला स्थापयित्वा तदहिः पुनरपि तत्समीपे 8.8.68
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy