SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ ५३३ तोरणादीनि चित्राणि तत्र तत्र प्रकल्पयेत् ॥ २२ ॥ विधातारश्च वाणीञ्च गीतिशास्त्रप्रवर्तकान् । विद्याधरीं जगद्धात्रीं कल्पयेच्चन्द्रसूर्यकौ ।। २३ । द्वारपार्श्वस्थले योधं स्थापयेद्खङ्गधारिणम् । चामरग्राहिणी दिव्ययोषितं वात्र कल्पयेत ॥ २४ ॥ लक्ष्मीमुमां शिवं दिव्यगायकान्या प्रकल्पयेत् । पार्श्वभित्तिसमायुक्ता मङ्गणाङ्गणकल्पनाम् ॥ २५ ॥ सुषिरद्वार भागाढ्यामात्तपङक्तिक्रमां तथा । कल्पयेल्लक्षणोपेतैः नानाचित्रादिभिर्धृताम् । क्वचिदुद्यानवापीं वा सुखदां शुद्धवास्तुका ॥ २६ ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे रङ्गशालालक्षणकथनं नाम एकोनपञ्चाशोऽध्यायः ॥ स्तम्भललाटपट्टिकाभागेषु स्थलान्तरेष्वपि समुचितेषु नानाचित्र - तोरणादीन्प्रकल्पयेत् । 'विधातारश्च वाणीव' इत्यादिपाठस्सुगमार्थः । ब्रह्मद्वारभागभित्तिषु, नेत्रद्वार भाग भित्तिष्वपि विधातारं वाणीप्रमुखाः जगन्मातृश्व नानाभरणादिभूषिताः लोहसुघेष्टिकादिभिः प्रकल्पयेयुरिति ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy