SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ ४९१ तिर्यग्दारुषु सोपानेष्वपि दायय योजयेत् ॥ १८ ॥ तत्स्थलं मसृणीकुर्याच्चित्रादिच प्रकल्पयेत् । युक्त्याऽन्यदपि तद्योज्यं शकटादिषु शिल्पिभिः || नाना लोहकृतं भद्रं यथामानं यथाबलम् । तत्तत्स्थानाईकं योज्यं देवमानवकल्पने ॥ २० ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे पता कालक्षणपारिभद्रलक्षणकथनात्मकौ द्विचत्वारिंशत्रिचत्वारिंशाध्यायाँ कुलकरूपी ॥ विधा अय: प्रमुख लोह कृता: अयः कील शृङ्खलालादयः कवाटबन्धनद्वारफलकाबन्धनपर्यङ्कघटनढोला फलका संयोजन स्तम्भसन्धारण - कीलस्थापनयोजनादिदृढीकरणकार्येषु यथाप्रमाणं यथावलं यथा शोभं स्थापनीया: ॥ つ इत्थंप्रकारेण तक्षकलोहकारककशकारादिभिर्भवनगृहादि निर्माणेषु रथशिबिकाशकटयानादिकल्पनेष्वपि स्वस्वकार्यांनुगुणं युक्तया तत्तत्स्थलानुगुणं पताका कल्पनानुगुणपारिभद्रकल्पनादिकं स्थापनीयमिति सङ्क्षेपेण पारिभद्रलक्षणमुक्तं ज्ञेयम् ।। इति श्रीमदनन्त कृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां विश्वकर्म वास्तुशास्त्रव्याख्यायां पताकालक्षणपारिभद्रलक्षणकथनात्मको द्विचत्वारिंशत्रिचत्वारिंशाध्यायौ ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy