SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ३९४ कल्पनम्य कचिदावरणादियुतकल्पनस्य पुरोभागे तत्तत्कल्पनोचितस्थले स्थापनीयस्य मुखद्वारस्य लक्ष्मीद्वारमिति नाम ॥ अस्य विशदार्थो यथा लक्ष्मी द्वारगन्धर्वद्वारविश्वकर्म द्वारकुबेरद्वारवरुणद्वारप्रमुखानां द्वादशविधानां द्वाराणामप्युपरिभागे ललाटपट्टिकास्थाने मध्यसूत्रे पङ्कजमध्यनिषण्णायाः दिग्गजाभिषिक्ताया गजलक्ष्म्या (तथा गन्धर्वादीनां च रूपं स्थापयेत् । एवंरीत्या लक्ष्मीरूपयुतस्य द्वारस्य लक्ष्मीद्वारमिति व्यवहारः ॥ --- एवं गन्धर्वरूपसहितस्य द्वारस्य गन्धर्वद्वारमिति, विश्वकर्मरूपसहितस्य द्वारस्य विश्वकर्मद्वारमित्यादिक्रमेण तत्तदधिदेवतारूपकल्पनं तेषां द्वाराणां तन्नामव्यवहरणं च क्रमशो ज्ञेयमिति भावः || तत्रापि कोऽपि नियमः । यथा द्वारस्य दारुमयस्य ललाटभागे दारुमयीमेत्र गजलक्ष्म्यादितत्तन्नाथमूर्ति स्थापयेत् । सुधेष्टिकाकल्पितस्य द्वारस्य ललाटभागे तन्मय्येव तत्तन्नाथस्वरूपादिरचना न्याय्या । एवं देवालयादिमुखभागस्थले कल्पितस्य शिलामयस्य द्वारस्योपरि ललाटस्थाने शिलामयी मंत्र लक्ष्म्यादिमूर्ति स्थापयेत्; न संकीर्णद्रव्यादिनेति शिल्पसमयः । सति विभवे बाञ्छायां तादृशलक्ष्म्यादिदेवतास्वरूपं द्वारपार्श्वस्थितासु भित्तिषु षा उपरिभागे बा कुड्यादिषु पीतकृष्णवर्णादिना सुधादिना
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy