SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ ३६७ द्वारोपद्वारयुक्तं वा युग्मयुग्मकवाटकम् | अन्तर्बहिश्व भित्तीनां प्रान्तेषु क्षुद्रपट्टिका ॥ ९ ॥ समभानं पुरोमानं कल्पयेयुक्तिपूर्वकम् । विषमस्थलमानैव कार्य कुत्रापि शिल्पिभिः ॥ १० ॥ भित्तिसम्मुखमाग्वाऽपि न स्थाप्यं स्तम्भममुग्वम् । - युग्मयुग्मविभेदेन समसंख्यां प्रकल्पयेत् ॥ ११ ॥ कल्पनेषु सव्यापसव्ययोर्भागयोर्गवाक्षद्वयं सममानं निम्नोन्नतरहितं स्थापयेत् । किञ्च तादृशद्वाराणां तरणानन्तरं तत्समीप एव तन्मानयुतमेवोपद्वारं च कचिदलिन्द भागयुतकल्पनाविशेषेषु बहुविधेषु भवनादिकल्पनेपु स्थापनीयमित्यर्थश्च प्रतीयते ॥ किचैत्रमत्रान्तर्भवने विषमसंख्या न कार्या । तथा न स्तम्भकुड्यभित्तिकोणादिसम्मुखं स्थापनीयम् । किकस्यां शालायां प्राचीभागेऽन्तर्भवनद्वयं कल्पितं यदि तदा प्रतीचीभागे च तन्मानमेवान्तर्भवनद्वयं तदीयद्वारगवाक्षवितानादिलक्षणोपेतं समतले स्थापनीयमित्येतत्क्रमश्र बोध्यः । इदव लक्षणं साधारणप्रामगृहेषु, मानवसदनेषु, धनिक भवनेपु, राजकीय हर्म्य - प्रासादेषु, बहु सौध मञ्जुल कलरनेषु अवश्यं कल्पनीयमिति शिल्पिनां संप्रदायो बोध्यः श्रेयस्कर: शोभाजनक सौकर्यावहश्चेति साधवः ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy