SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ २३४ शिखरत्रयसंयुक्तविमानेन च भासुरम् । नानाचित्रसमोपेतं वितानैरपि मण्डितम् ।। २७ ॥ पूर्वशालाममायुक्तं खड्गचिह्नसमन्वितम् । स्थापयन्मतिमान् शिल्पी रक्षकैस्संवृताङ्गणम् ॥ इति विश्वकर्मप्रणीने विश्वकर्मवास्तुशास्त्रे भाण्डागारलक्षणकथनं नाम अष्टादशोऽध्यायः॥ किश्चैतादृशराजकीयधनशालायाः कल्पने मध्यभागे तच्छालाकार्यकारिणामासनसमीपे पूर्वोक्तावरणत्रये चालिन्दभागेषु चित्रकम्बला स्तरणं कार्यम । किञ्च तत्र तत्र द्वारसमीपे सुवर्णपट्टैरथवा राजतपट्टैः कल्पिता सोपानपट्टावलिका स्थापयित्वा तादृशधनवे द्या उपरिभागे शिवरत्र यलसितं विमानं कल्पयित्वा आन्तरालिकभित्तिकोणादिभागेषु नानाचित्रलसितं वितानजालञ्च रचयेत् । किञ्चास्याश्शालायाः पूर्वभागे पूर्वोक्तरीतियुनं पूर्वभवनमथवा पूर्वशाला स्तम्भाष्टकयुतां निर्मापयित्वा प्रथमद्वारसव्यापसव्ययो राज्ञां जयप्रदं खड्गचिह्न तत्पुरत एव रक्षाकार्यज्याप्तयामरक्षाकारिणां च गणं स्थापयेदित्युपदेशः ॥ तस्मादेतावता वाक्यजालेन राजकीयधनशालाया बाह्य
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy