SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ तृतीयावरणे देवी चाशीर्वचनकारिणी। एवं देवीत्रयं स्थाप्यं यशोधनजयप्रदम् ॥ २५ ॥ कम्बलास्तरणोपेतमध्यभागविराजितम् । सुवर्णपट्टसंयुक्तं राजतैस्तोरणादिभिः ॥ २६ ॥ दीपदेव्याः प्रतिकृति स्थापयेत् । एवं द्वितीयावरणद्वारभागे चामरधारिण्या दिव्ययोषितः प्रतिकृति, तृतीयावरणद्वारान्ते आशिषमनुवदन्त्या लोकमातुः प्रतिकृतिश्च स्थापयदिति शास्त्रीयनियमनक्रमः । किं वा प्रयोजनमेतामा स्थापने इति न वाच्यम। तत्र धनवेद्यां स्थापितायाः नवनिध्यधिदेवताया भूदेव्याः काचित्परिचारिणी, अन्या तु सखीति बोध्यः । तस्मात्सर्वथा सपरिवारायास्तस्या भूमिदेव्या अंशभूतामिमां धनशालां वर्धयितुं भूपालस्य यशोजयादिविभवहेतवे च एवं स्थापनमेवाद्यो हेतुरिति श्रुतिस्मृतिप्रमाणसिद्धक्रमो ज्ञेयः ! किश्च पूर्वोक्तरीत्या तादृशधनशालायां कल्पिताया गोरूपभूदेवीचित्रयुतधनवेद्याः प्राचीभागे समुचिते स्थल कल्पन सुवर्णराशिं विन्यसेत् । वेद्या दक्षिणस्यां दिशि रजतराशिमुदीच्यां दिशि वनवैडूर्यगोमेदकपुष्परागनीलादिनवरत्नजालानि च स्थापयित्वा वारुणे भागे लिपिकारिणः तादृशसुवर्णादिधनव्ययादिक्रमनिर्णयकारिणः पुस्तकपालिञ्च विन्यसेदित्युपदेशः॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy