SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३२६ कात्यायनो महातेजा मरीचिश्चित्रतोयकः । पालकाप्यः पुण्डरीको दीर्घदर्शी पुनर्वसुः ॥ २ ॥ योगसारो महातेजा ये चान्ये मुनिपुङ्गवाः । तैरतीन्द्रियविज्ञाननिधिभिर्धर्मरक्षकैः ॥ ३ ॥ वास्तुशास्त्रं महत्प्रोक्तं लोकरक्षणहेतवे । तदुक्तमेव संक्षिप्य तत्तल्लचणमुच्यते ॥ ४ ॥ प्रमाणेषु स्थापनेषु चित्रादिस्थापनासु च । मतभेदं समाश्रित्य मयापि समलक्षणम् ॥ ५ ॥ नयनानन्द जनककल्पनानाञ्च सूरिणाम् । भाण्डागारादीनां सद्भिरङ्गीकार्याणां नयनानन्दकराणां निर्मितिरचनाविशेषाणां लक्षणच स्वयं निगद्यत इति प्रतिज्ञां प्रतिपादयितुमधुना तादृशमहिमवतां प्राचीन शास्त्रकाराणामगरख्यादीनां नामानि कथयति अगस्त्य इत्यादिना ॥ -- भगवानगत्स्यो, नन्दिदेवो, नारद महर्षि बृहस्पतिस्तिम्यलोकाख्यो महर्षिः । काश्यप मुनित्रर्यो, लोकदर्शक महर्षि, महातेजाः कात्यायनो, मरीचिश्चित्रतोयकमुनिवरः पालकाप्यो महर्षिः पुण्डरीकाक्ष महर्षिर्दीर्घदर्शी मुनिश्रेष्ठः पुनर्वसुनामको मुनिवरो योगसार महर्षिरेतादृशा ये चान्ये मुनिपुङ्गवाः तैः प्रणीतेषु शिल्पशास्त्रेषु बहुविधेषु पूर्वोक्तरीत्या न्याय्यं सङ्गीकार्यमेव । मतभेद, ,
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy