SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ३२१ अथ चतुर्विशतिस्तम्भस्थापनक्रमो यथा --- पुरोभागे स्तम्भाष्टकं पश्चाद्भागे च स्तम्भाष्टकं स्थापयित्वा मध्यभागे मण्डलाकारे स्तम्माष्टकञ्च प्रकल्प्य तवैव देववेदी सिह्मासनस्थापनार्थ प्रकल्पयदिति क्रमः ॥ अथ विंशतिस्तम्भस्थापनक्रमो यथा - प्राच्यादिषु चतसृष्वपि दिक्षु समसूत्रं स्तम्भचतुष्कं प्रत्येकं स्थापयित्वा मध्यभागे चतुरश्रकल्पनामथवा मण्डलाकारकल्पनं स्तम्भचतुष्कसहितश्च प्रकल्पयदिति क्रमो बोध्यः । एतत्सर्वमप्यत्रत्योद्धारमण्डलनिरीक्षणेन सुलभवेद्यमिति भावः । एवमत्र त्रिविधायां न्यायशालायां प्रतिपादितस्तम्भलक्षणस्य पूर्वभवनलक्षणादिष्वतिव्याप्त्यादिदोषासक्तिनँव । कथम ? तदपेक्षयाऽत्र स्तम्भसंख्याधिक्यकथनादिति समञ्ज सम ॥ न्यायशालासु स्थापनीयस्तम्भक्रमद्योतकोद्धारो यथा -
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy